Enter your Email Address to subscribe to our newsletters

उज्जैनम्, 10 जनवरीमासः (हि.स.)। मध्य प्रदेश-राज्ये उज्जैन-नगरे स्थिते सम्राट विक्रमादित्य विश्वविद्यालये आयोजितस्य त्रिदिवसीयस्य “अभ्युदय” नामकस्य राज्यस्तरीय-युवा-उत्सवस्य (२६) अद्य शनिवासरे डॉ. मोहन यादव महोदयस्य मुख्यातिथ्ये समापनं पुरस्कार-वितरणं च भविष्यति। अस्य कार्यक्रमस्य विशेषाकर्षणरूपेण प्रसिद्धा चलचित्र-अभिनेत्री अमीषा पटेल उपस्थिताः भविष्यन्ति।
विश्वविद्यालयस्य कुलसचिवः डॉ. अनिलकुमार शर्मा महोदयः सूचयन् अवदत् यत् एषः समापन-पुरस्कार-वितरण-समारोहः विश्वविद्यालय-परिसरे स्थिते मुक्ताकाशी-मञ्चे सायंकाले पञ्चवादनात् आरभ्यते। सः अवदत् यत् अस्मिन् त्रिदिवसीये राज्यस्तरीय-आयोजने प्रदेशस्य विविध-विश्वविद्यालयेभ्यः आगतानां अष्टशतानधिकानां विद्यार्थिनां द्वाविंशतिषु विधासु सक्रिय-सहभागिता आसीत्। उत्सवस्य अन्तिमदिने साहित्यिकाः सांस्कृतिकाश्च प्रतियोगिताः आयोजयिष्यन्ते ततः अनन्तरं समापन-समारोहस्य अवसरें विजेतृभ्यः पुरस्कार-वितरणं करिष्यते।
अस्य समारोहस्य विशेषातिथयः सांसदः अनिलफिरोजिया विधायकः अनिलजैन-कालूहेड़ा नगरनिगमाध्यक्षाः कलावती यादव च भविष्यन्ति। समारोहस्य अध्यक्षतां कुलगुरुः प्रो. अर्पण भारद्वाजः करिष्यति।
डॉ. शर्मा अपि अवदत् यत् विश्वविद्यालयस्य कृते अयं गौरवस्य अवसरः अस्ति यतो हि प्रथमवारं युवोत्सवे प्रसिद्धा चलचित्र-अभिनेत्री अमीषा पटेल उपस्थिता भविष्यति। अमीषा पटेल भारतीय-चलचित्र-जगति प्रसिद्धं नाम अस्ति। सा अनेकेषु महत्त्वपूर्णेषु चित्रपटेषु अभिनयम् अकरोत् तथा च विख्यातैः चलचित्र-तारकैः सह तस्याः लोकप्रियाः चित्रपटाः सन्ति।
सा संवत्सरे २००० तमे वर्षे कहो ना प्यार है इति सुपरहिट-चित्रपटेन स्वस्य अभिनय-जीवनस्य आरम्भं कृतवती। अमेरिकादेशस्य Tufts University-विश्वविद्यालयात् अर्थशास्त्रे स्वर्णपदकं प्राप्तवती अमीषा, संवत्सरे २००१ तमे वर्षे निर्मिते ऐतिहासिके चित्रपटे गदर: एक प्रेम कथा इति ‘सकीना’ इति पात्रेण विशेषतया ख्यातिं प्राप्तवती। सा हमराज, भूल भुलैया, तथा च अद्यतन-सफलचित्रपटे गदर 2 इत्यादिषु अनेकेषु सफलेषु चित्रपटेषु अपि कार्यं कृतवती।
अभिनयस्य अतिरिक्तं सा प्रशिक्षिता भरतनाट्यम्-नृत्याङ्गना अपि अस्ति तथा च हिन्दीभाषया सह दक्षिण-भारतीय-चलचित्रेषु अपि स्वकीयं विशिष्टं स्थानं निर्मितवती।
हिन्दुस्थान समाचार