पैन-इंडिया एकीकृतस्य रोड शो अभियानस्य शुभारंभः
देहरादूनम्, 10 जनवरीमासः (हि.स.)। उत्तराखण्डराज्येन स्वस्य पर्यटनपक्षः संगठितः, समन्वितः च बहुशहरीयाभियानरूपेण प्रस्तुत्य पैन-इण्डिया-एकीकृत-रोड-शो-अभियानस्य आरम्भः कृतः। शनिवासरे दिल्लीस्थिते एकस्मिन् होटले उत्तराखण्डपर्यटनविभागेन आयोजितस्य पैन-इण
कार्यक्रम का शुभारंभ करते महाराज।


देहरादूनम्, 10 जनवरीमासः (हि.स.)। उत्तराखण्डराज्येन स्वस्य पर्यटनपक्षः संगठितः, समन्वितः च बहुशहरीयाभियानरूपेण प्रस्तुत्य पैन-इण्डिया-एकीकृत-रोड-शो-अभियानस्य आरम्भः कृतः। शनिवासरे दिल्लीस्थिते एकस्मिन् होटले उत्तराखण्डपर्यटनविभागेन आयोजितस्य पैन-इण्डिया द ललित एकीकृत रोड शो इत्यस्य शुभारम्भं प्रदेशस्य पर्यटन, धर्मस्व तथा संस्कृति मन्त्री सतपालमहाराजः अकरोत्।

सः अवदत् यत् दिल्ली एनसीआर क्षेत्रस्य ट्रैवल ट्रेड तथा पर्यटन उद्योगं राज्यस्य साहसिक, शीतकालीन, वेलनेस, आध्यात्मिक, सांस्कृतिक तथा अनुभवात्मक पर्यटन उत्पादैः सह सम्बद्धं कर्तुम् इच्छामः। एषः अभियानः प्रधानमन्त्री नरेन्द्रमोदिना प्रतिपादितस्य दृष्टिकोणस्य साकारार्थं उत्तराखण्डमुख्यमन्त्री पुष्करसिंहधामीस्य निर्देशन एवं मार्गदर्शनानुसारं प्रारब्धः अस्ति, यस्य उद्देश्यं उत्तराखण्डराज्यं त्रिशतपञ्चषष्टि-दिनात्मकं पर्यटनगन्तव्यरूपेण प्रतिष्ठापयितुम्।

सः अपि अवदत् यत् एषा रोड शो शृंखला राज्ये पर्यटननिवेशं, उद्योगसहयोगं तथा पर्यटकागमनं बहुगुणितं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहिष्यति। देशस्य अनेकेषु नगरेषु एतादृश्याः सहभागितामूलकाः क्रियाकलापाः आयोज्यन्ते। अस्माकं प्रमुखा प्राथमिकता उत्तराखण्डं शीतकालीन पर्यटनस्य राष्ट्रीयकेन्द्ररूपेण विकासयितुम् अस्ति, यत्र पर्यटकाः स्कीइंग, स्नो ट्रैकिंग तथा शीतोत्सवाणां आनन्दं अनुभवितुं शक्नुवन्ति।

महाराजः अपि उक्तवान् यत् जोशीमठ, औली तथा पाण्डुकेश्वरादीनि स्थानानि वयं शीतकालीन चारधाम तथा सूर्योदय पर्यटनरूपेण विकसितं कुर्मः, येन श्रद्धालवः वर्षपर्यन्तं दर्शनं आध्यात्मिकानुभूतिं च प्राप्नुयुः। सः अवदत् यत् पर्यटनक्षेत्रस्य सहभागिभिः टूर ऑपरेटरैः, होटेलव्यवसायिभिः तथा साहसिकविशेषज्ञैः सह मिलित्वा वयं नवानि उत्पादानि, नवानि पैकेजानि तथा नवानि अवसरान् विकसितं करिष्यामः।

------------

हिन्दुस्थान समाचार