Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 10 जनवरीमासः (हि.स.)। केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः अद्य अत्र भारतमण्डपमे १० जनवरीतः १८ जनवरीपर्यन्तं प्रवर्तमानस्य विश्वपुस्तकमेलस्य अवसरे केन्द्रीयसंस्कृतिमन्त्रालयस्य पवेलियनस्य उद्घाटनं कृतवान्।
अस्मिन् अवसरे तेन सह मेलापके विशिष्टातिथिरूपेण कतरदेशस्य संस्कृतिमन्त्री शेख अब्दुलरहमान् बिन् हमद् बिन् जस्सिम् अल् थानी, स्पेनदेशस्य संस्कृतिमन्त्री अर्नेस्तु उर्तासुन् डोमेनेक्, संस्कृतिमन्त्रालयस्य मान्यः संयुक्तसचिवः समरनन्दा, साहित्यअकादम्याः सचिवा पल्लवीप्रशान्ता होळकरा च उपस्थिताः आसन्।
पल्लवीप्रशान्ता होळकरा अवदत् यत् अस्मिन् वर्षे संस्कृतिमन्त्रालयस्य अन्तर्गताः सर्वाः संस्थाः एकस्मिन्नेव पवेलियने स्थानं प्राप्तवन्तः। हॉल् सङ्ख्या ५ मध्ये निर्मिते अस्मिन् पवेलियने षड्विंशतिः संस्थाः प्रतिनिधित्वं कुर्वन्ति, यत्र पञ्चत्रिंशत् (३५) स्टॉलाः स्थापिताः सन्ति। एतेषु स्टॉलेषु पुस्तकविक्रयस्य सह सह केचन महत्त्वपूर्णाः सामग्रीः अपि प्रदर्शिताः सन्ति। अस्मिन् अवसरॆ साहित्यअकादम्या विविधाः साहित्यिककार्यक्रमाः अपि आयोजयिष्यन्ते। सर्वैः अतिथिभिः साहित्यअकादम्याः स्टॉलस्य निरीक्षणं कृतम्।
साहित्यअकादम्याः सचिवा होळकरा सर्वान् अतिथीन् अकादम्याः द्वारा चतुर्विंशतिः भारतीयभाषासु प्रकाशितानां पुस्तकानां विषये अवगतं कारयित्वा केषाञ्चन विशिष्टपुस्तकानां परिचयमपि दत्तवती। साहित्यअकादम्या तथा अन्याभिः संस्थाभिः प्रकाशितानां पुस्तकानां सूचीपत्राणि (कैटलॉग्) अपि अतिथिभ्यः उपहाररूपेण प्रदत्तानि।
उल्लेखनीयं यत् साहित्यअकादमी अस्मिन् अवसरॆ अष्टादश (१८) महत्त्वपूर्णाः कार्यक्रमाः आयोजयति, ये सर्वे हॉल् सङ्ख्या २ स्थिते ‘लेखकमञ्चे’ आयोजिताः भविष्यन्ति।
-----------
हिन्दुस्थान समाचार