Enter your Email Address to subscribe to our newsletters




सौराष्ट्रम्, 10 जनवरीमासः (हि.स.)।
गुजरातराज्ये सोमनाथस्वाभिमानपर्वणि निमित्तं सम्पूर्णे सौराष्ट्रप्रदेशे महोत्सवमयः वातावरणः दृश्यते। गतत्रिदिनात् सोमनाथमन्दिरपरिसरे निरन्तरं प्रवर्तमानस्य ओंकारमन्त्रजापस्य निनादेन सम्पूर्णं सौराष्ट्रं गुंजायमानं जातम्। अस्मिन् कार्यक्रमे शनिवासरस्य रात्रौ अष्टवादने प्रधानमन्त्री नरेन्द्रमोदीः अपि ओंकारमन्त्रजापं करिष्यति तथा ड्रोन-प्रदर्शनकार्यक्रमे सहभागं करिष्यति।
सोमनाथस्वाभिमानपर्वं प्रति जनाः अत्यन्तं उत्साहिताः दृश्यन्ते। भोलेबाबाया भक्तौ निमग्नानां भक्तानां महती भीड् आगता अस्ति। केचन भक्ताः कीर्तनं कुर्वन्तः मीलानां दूरीं पदातिं गत्वा सोमनाथभगवतः दर्शनार्थं आगच्छन्ति, अन्यत्र रथयात्रायाः सिद्धयः प्रचलन्ति। मन्दिरप्राङ्गणात् कोसदूरपर्यन्तं पुष्पालङ्कारस्य शोभा द्रष्टुं रमणीया वर्तते। गुलाबैः, मोगरैः, रजनीगन्धाभिः, ऑर्किड्-पुष्पैः च सम्पूर्णं मन्दिरं अलङ्कृतम् अस्ति।
मन्दिरस्य पृष्ठभागे निरन्तरं ओंकारमन्त्रजापः प्रवर्तते। तस्य पृष्ठतः सागरस्य मनोहरं दृश्यं मन्दिरस्य भव्यतां सौन्दर्यं च बहुगुणं वर्धयन् इव दृश्यते। विविधराज्येभ्यः आगताः कलाकाराः स्वैः मनोहरैः नृत्यैः प्रधानमन्त्रिणः स्वागतं करिष्यन्ति।
उल्लेखनीयं यत् प्रधानमन्त्री नरेन्द्रमोदीः सोमनाथस्वाभिमानपर्वस्य उपलक्ष्ये आयोजितस्य चतुर्दिवसीयमहोत्सवस्य कृते शनिवासरे गुजरातं प्राप्स्यति। मन्दिरस्य जीर्णोद्धारस्य पञ्चसप्ततितमवर्षगाँठायाः उपलक्ष्ये आयोजिते अस्मिन् कार्यक्रमे प्रधानमन्त्री बहुषु कार्यक्रमेषु सहभागं करिष्यति। कार्यक्रमानुसारं सः ओंकारमन्त्रजापं करिष्यति, ड्रोन-प्रदर्शनं अवलोकयिष्यति तथा शौर्ययात्रायां भागं करिष्यति। एषा शौर्ययात्रा मन्दिररक्षणार्थं स्वप्राणान् उत्सृज्य बलिदानं कृतवतां योद्धॄणां श्रद्धाञ्जल्यर्थं अष्टोत्तरशत-अश्वैः सह आयोज्यते।
अस्मिन्नेव दिने सोमनाथमन्दिरे महमूदगजनिना कृतस्य आक्रमणस्य सहस्रतमी वर्षगाँठा अपि भवति। गुजरातभाजपाया महासचिवः अनिरुद्धदवेः अवदत् यत् प्रधानमन्त्रीमोदेः नेतृत्वे सनातनीपरम्परायाः स्वाभिमानपर्वस्य आयोजनं प्रथमवारं भवति। एषः क्षणः अस्माकं सर्वेषां गौरवस्य विषयः अस्ति। सहस्रवर्षपूर्वं सनातनीपरम्परायाः नाशाय प्रयासः कृतः, किन्तु सः सफलो नाभवत्। अद्यापि केचन जनाः तस्याः परम्परायाः विनाशाय प्रयासं कुर्वन्ति, किन्तु तेऽपि सफलाः न भविष्यन्ति। सनातनीपरम्परायां सर्वेषां सहकार्यं सर्वेषां विकासश्च निहितः अस्ति। सः अपि अवदत् यत् अस्मिन् पर्वणि नागासाधूनां रथयात्रा प्रथमवारं सम्पन्ना अस्ति। गतत्रिदिनात् अत्र सततं ओंकारमन्त्रजापः प्रवर्तते, यस्य निनादेन सम्पूर्णं सौराष्ट्रं सोमनाथभक्तौ निमग्नम् इव प्रतीतं भवति।
काशीस्थः प्रमुखमहन्तः श्रीकान्तमिश्रः अवदत् यत् देशस्य सर्वेषां द्वादशज्योतिर्लिङ्गानां प्रतिनिधयः अस्य पर्वस्य साक्षिणः भवन्ति। ते महाभिषेकं करिष्यन्ति तथा आरतीं च करिष्यन्ति। रविवासरे प्रातःकाले प्रधानमन्त्रीमोदीः पूजामर्चनं करिष्यति। अस्यां पूजायां सर्वेषां ज्योतिर्लिङ्गानां प्रतिनिधयः पूजनकार्यं निर्वहिष्यन्ति।
प्रधानमन्त्री नरेन्द्रमोदीः सोमनाथयात्रां प्रति सामाजिकमाध्यममञ्चे ‘एक्स्’ इत्यस्मिन् लिखितवान्—
“सोमनाथस्वाभिमानपर्वः अस्माकं आध्यात्मिकपरम्परायाः सशक्तं प्रतीकम् अस्ति, यः सम्पूर्णे देशे श्रद्धया, भक्त्या, उल्लासेन च आचर्यते। अस्यां परम्परायां शनिवासरस्य रात्रौ प्रायः अष्टवादने सोमनाथमन्दिरे दिव्यस्य ओंकारमन्त्रजापस्य भागी भवितुं सौभाग्यं लप्स्ये। अनन्तरं प्रातः प्रायः नववादन-पञ्चचत्वारिंशत्समये मातृभारत्याः अनगिनतवीरसन्तानानां समर्पितायां शौर्ययात्रायां सहभागं कृत्वा मन्दिरे दर्शनं पूजनं च करिष्यामि। तदनन्तरं अत्र आयोजिते सार्वजनिककार्यक्रमेऽपि सहभागस्य सुअवसरः भविष्यति।”
हिन्दुस्थान समाचार