राज्य–कर्मचारिणां केन्द्रवत् माहर्ग–भत्तायां वृद्धिः भविष्यति - मुख्यमन्त्री सायः
रायपुरनगरम्, ११ जनवरीमास: (हि.स.)। मुख्यमन्त्री विष्णुदेव–सायः रविवासरे एच.सी.एम.–आरक्षी–क्षेत्रे स्थितात् वायुयानसंस्थात्रात् कोरबा–जनपदं प्रति प्रस्थितवान्। कोरबा–प्रस्थानात् पूर्वं रायपुर–नगरे पत्रकारैः सह संवादं कुर्वन् सः राज्य–कर्मचारी–सङ्घसम
मुख्यमंत्री विष्णुदेव साय पत्रकाराें से बातचीत करते हुए


रायपुरनगरम्, ११ जनवरीमास: (हि.स.)। मुख्यमन्त्री विष्णुदेव–सायः रविवासरे एच.सी.एम.–आरक्षी–क्षेत्रे स्थितात् वायुयानसंस्थात्रात् कोरबा–जनपदं प्रति प्रस्थितवान्। कोरबा–प्रस्थानात् पूर्वं रायपुर–नगरे पत्रकारैः सह संवादं कुर्वन् सः राज्य–कर्मचारी–सङ्घसम्बद्धाः महत्त्वपूर्णाः घोषणाः अकरोत्।मुख्यमन्त्रिणा सूचितं यत् रायपुर–नगरे राज्य–कर्मचारी–सङ्घस्य द्विदिवसीयं प्रान्तीय–सम्मेलनं आयोजितम् आसीत्, यस्मिन् केन्द्रीय–स्तरस्य कर्मचारी–सङ्घस्य पदाधिकारिणः अपि सम्मिलिताः आसन्। अस्मिन् अवसरे मुख्यमन्त्री स्वयं कर्मचारीभिः सह साक्षात्कृत्य तेषां याचनानां विषये विचार–विनिमयं कृतवान्।मुख्यमन्त्री विष्णुदेव–सायः अवदत् यत् कर्मचारिणां प्रमुखा याचना केन्द्रीय–सर्वकारवत् माहर्ग–भत्तायां (डी.ए.) वृद्धेः विषये आसीत्, यां राज्य–सर्वकारेण स्वीकृत्य तस्याः घोषणा अपि कृता अस्ति। अवशिष्ट–याचनानां निराकरणाय सर्वकारेण एकस्याः समितेः गठनं क्रियते।मुख्यमन्त्रिणा उक्तं यत् कर्मचारीणां बह्व्यः याचना: युक्तिसङ्गताः सन्ति, ताः च चरणबद्ध–रूपेण पूरयिष्यति सर्वकारः। तेन आश्वासनं दत्तं यत् राज्य–सर्वकारः कर्मचारिणां हितेषु पूर्णतया संवेदनशीलः अस्ति तथा तेषां कल्याणाय प्रतिबद्धः अपि अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता