अरब–सागरस्य आकाशे सोमनाथ–मन्दिरस्य सहस्र–वर्षीय अद्भुता गाथा, प्रधानमन्त्री मोदी मन्त्रमुग्धः अभवत्
सोमनाथ (गुजरात), ११ जनवरीमासः (हि.स.)। शताब्दीनां पर्यन्तं पुनः पुनः आक्रमणानां साक्षीभूतः अपि सोमनाथ–मन्दिरः अद्यापि भारतस्य अमिट–भावनायाः प्रतीकरूपेण गौरवेण तिष्ठति। अस्याः एव भावनायाः अद्भुतः प्रकाशः शनिवासरस्य सायंकाले अरब–सागरस्य उपरि नभसि दृष
ड्रोन शो के दौरान अरब सागर के आसमान पर सोमनाथ के इतिहास की गाथा


ड्रोन शो


ड्रोन शो


ड्रोन शो


सोमनाथ (गुजरात), ११ जनवरीमासः (हि.स.)। शताब्दीनां पर्यन्तं पुनः पुनः आक्रमणानां साक्षीभूतः अपि सोमनाथ–मन्दिरः अद्यापि भारतस्य अमिट–भावनायाः प्रतीकरूपेण गौरवेण तिष्ठति। अस्याः एव भावनायाः अद्भुतः प्रकाशः शनिवासरस्य सायंकाले अरब–सागरस्य उपरि नभसि दृष्टिगोचरः अभवत्। प्रायः त्रिसहस्राधिक–ड्रोन–यानानां अद्वितीय–संयोजनेन सोमनाथ–मन्दिरस्य सहस्रवर्षीय यात्रा रोचक–रूपेण प्रदर्शिता। एतत् ड्रोन–प्रदर्शनं दृष्ट्वा प्रधानमन्त्री नरेन्द्र–मोदी अपि अत्यन्तं मन्त्रमुग्धः अभवत्। सः स्वस्य सामाजिक–सञ्जाल–पटले तस्य रोचक–प्रदर्शनस्य बहूनि चित्राणि प्रकाशितवान्।ड्रोन–प्रदर्शनेन अरब–सागरस्य उपरि आकाशे प्रकाशस्य अद्वितीय–संयोजनद्वारा विविध–बिन्दु–चित्राणि, वर्णमयाः आकृतयश्च सर्जिताः। आकाशे उद्भूतानि प्रकाशमय–दृश्यानि जनानाम् आकर्षणस्य मुख्य–केन्द्राणि जातानि। ड्रोन–यानैः निर्मिताः सोमनाथ–मन्दिरस्य, त्रिशूलस्य, ‘ॐ’–चिह्नस्य, वीर–हमीर्जीनः, अहिल्याबाई–होल्करस्य, सरदार–वल्लभभाई–पटेलस्य तथा नरेन्द्र–मोदी–महाभागस्य आकृतयः अपि दर्शिताः। प्रत्येकं परिवर्तितायाः आकृतेः समये जनानां करतल–नादैः तथा “हर–हर–महादेव” इति घोषैः सम्पूर्णं मन्दिर–परिसरं गुंजायमानम् अभवत्। तदनन्तरं वर्ण–विविधा विस्फोटका: अपि जनान् मन्त्रमुग्धान् अकरोत्। अस्य अद्वितीय–आयोजनस्य कारणात् पावने सोमनाथ–धामनि उत्सवमयः हर्षोल्लास–पूर्णं वातावरणं निर्मितम्। अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्र–मोदी–महाभागेन सह गुजरात–राज्यस्य मुख्यमन्त्री भूपेन्द्र–पटेलः तथा राज्यस्य बहवः मन्त्रिणः अपि उपस्थिताः आसन्।उल्लेखनीयम् यत् सोमनाथस्य गाथा केवलम् एकस्य मन्दिरस्य न, अपि तु भारत–मातुः अगणित–सुपुत्राणाम् अदम्य–साहसस्य कथा अस्ति, येन देशस्य संस्कृति–सभ्यतयोः संरक्षणं कृतम्। भारतस्य पश्चिम–समुद्र–तटे गुजरात–राज्यस्य सौराष्ट्र–प्रदेशे भगवान् सोमनाथः प्रथम–ज्योतिर्लिङ्ग–रूपेण विराजते। एषा पावना भूमिः, या “प्रभास–क्षेत्रम्” इति प्रसिद्धा, केवलं तीर्थ–स्थलं न, अपि तु राष्ट्रस्य अमिट–श्रद्धायाः, संघर्षस्य, पुनरुत्थानस्य च सजीवं प्रतीकम् अस्ति।मध्ययुगे अस्य मन्दिरस्य उपरि बहूनि आक्रमणानि अभवन्। एकादश–शताब्द्यां महमूद–गजनीतः आरभ्य अलाउद्दीन–खिलजी तथा औरंगजेब–पर्यन्तम् अनेकैः आक्रान्तैः एतत् मन्दिरं लुण्ठितं विनष्टं च। तथापि प्रत्येकस्मिन् समये भीमदेवः, सिद्धराज–जयसिंहः, कुमारपालः इत्यादयः वीर–नायकाः तस्य पुनर्निर्माणं कारितवन्तः। स्वीयाम् आस्थां रक्षितुं हामिर–जी–गोहिलः, वेगड़ा–भीलः इत्यादयः शूरवीराः स्व–प्राणान् अपि आहुतिं दत्तवन्तः।१५ अगस्त १९४७ तमे दिने भारतं स्वातन्त्र्यं प्राप्तवान्। जूनागढ़–मुक्तेः अनन्तरं “लौह–पुरुष” इति विख्यातस्य सरदार–वल्लभभाई–पटेलस्य दृढ–संकल्पेन आधुनिक–सोमनाथ–मन्दिरस्य स्वप्नं साकारम् अभवत्। ११ मई १९५१ तमे दिने भारतस्य प्रथम–राष्ट्रपतिः डाॅ.राजेन्द्र–प्रसादः मन्दिरस्य प्राण–प्रतिष्ठां कृतवान्। आधुनिक–मन्दिरस्य वास्तु–रचना “कैलाश–महामेरु–प्रसाद” इति प्रसिद्धा, तथा वर्तमानं सोमनाथ–मन्दिरं नागर–शैल्याः उत्कृष्टम् उदाहरणम् अस्ति। अस्य रूपरेखा सुप्रसिद्धेन वास्तुकारेण प्रभा–शंकर–सोमपुरा–महाभागेन निर्मिता।

हिन्दुस्थान समाचार / अंशु गुप्ता