Enter your Email Address to subscribe to our newsletters

उज्जैनम् , 11 जनवरीमासः (हि.स.)।
प्रसिद्धे चलचित्राभिनेत्र्यौ शिल्पा शेट्टी तथा शमिता शेट्टी मध्यप्रदेशस्य उज्जयिन्यां स्थितं भगवान् महाकालेश्वरं ज्योतिर्लिङ्गं दर्शनार्थं गतवत्यौ, शयनारत्यां च सहभागीनी अभवताम्।
मन्दिरं प्राप्तयोः तयोः श्रीमहाकालेश्वरमन्दिरप्रबन्धसमितेः तर्फेण सहायकप्रशासकेन हिमांशु कार्पेण्टर इत्यनेन स्वागतसत्कारः कृतः।
उभे अभिनेत्र्यौ नन्दीहॉलमध्ये उपविश्य बाबामहाकालस्य दर्शनं कृतवत्यौ, आरत्यां च सहभागीनी अभवताम्।
ताभ्यां हस्तौ संयोज्य “ॐ नमः शिवाय” तथा “जय श्री महाकाल” इति घोषणाः कृताः।
---------------
हिन्दुस्थान समाचार