Enter your Email Address to subscribe to our newsletters

रांची, 11 जनवरीमासः (हि.स.)।
झारखण्डीभाषा-खतियान-संस्कृतिसमित्याः बैनरतले अल्बर्ट एक्का चतुष्पथि नगरनिगमस्य कार् पार्किङ्गस्थले एकादशे जनेवरी मासे टुसू महोत्सवस्य आयोजनं भविष्यति। अस्य आयोजनस्य सर्वाः तयारीः सम्पूर्णाः अभवन्। अस्मिन् अवसरे पारम्परिकरीत्या टुसू स्थापनम्, टुसू वन्दना, सामूहिकं टुसू गीतगानम् तथा टुसू चौड़ल् प्रदर्शनं च आयोजितं भविष्यति। अस्य कार्यक्रमस्य अवसरॆ बहवः जनाः समागमिष्यन्ति।
एतां सूचनां रविवासरे समितेः प्रतिनिधिः देवेन्द्रनाथ महतो प्रेस् विज्ञप्तिं प्रकाश्य दत्तवान्।
---------------
हिन्दुस्थान समाचार