अमित–शाहः, नितिन–गडकरी अन्ये च लाल–बहादुर–शास्त्रिणः पुण्यतिथौ श्रद्धाञ्जलिम् अर्पितवन्तः
नवदिल्ली, ११ जनवरीमासः (हि.स.)।केन्द्रीय–गृह–सहकारिता–मन्त्री अमित–शाहः, केन्द्रीय–सड़क–परिवहन–मन्त्री नितिन–गडकरी, अन्ये च बहव: मन्त्रिण: भाजपा–नेतार: अद्य पूर्व–प्रधानमन्त्रिणः तथा “भारत–रत्न”–पुरस्कृतस्य लाल–बहादुर–शास्त्रिणः पुण्यतिथौ श्रद्धाञ्
लाल बहादुर शास्त्री


नवदिल्ली, ११ जनवरीमासः (हि.स.)।केन्द्रीय–गृह–सहकारिता–मन्त्री अमित–शाहः, केन्द्रीय–सड़क–परिवहन–मन्त्री नितिन–गडकरी, अन्ये च बहव: मन्त्रिण: भाजपा–नेतार: अद्य पूर्व–प्रधानमन्त्रिणः तथा “भारत–रत्न”–पुरस्कृतस्य लाल–बहादुर–शास्त्रिणः पुण्यतिथौ श्रद्धाञ्जलिम् अर्पितवन्तः।अमित–शाहः ‘एक्स’ माध्यमे अवदत्—“पूर्व–प्रधानमन्त्रिणः ‘भारत–रत्न’–पुरस्कृतस्य लाल–बहादुर–शास्त्रिणः पुण्यतिथौ तस्मै कोटिश: नमनम्। संकट–काले ‘जय जवान, जय किसान’ इति घोषेण शास्त्री–महाभागेन राष्ट्रस्य स्वावलम्बनस्य सुरक्षायाश्च सुन्दरः समन्वयः कृतः। तस्य सारल्य–पूर्णं जीवनं सर्वेषां समाज–सेवकानां कृते प्रेरणास्रोतः अस्ति।”नितिन–गडकरी अवदत्—“देशस्य पूर्व–प्रधानमन्त्रिणः ‘जय जवान, जय किसान’ इति घोषस्य प्रणेता, भारत–रत्न–लाल–बहादुर–शास्त्री–महाभागः। तस्य पुण्यतिथौ तस्मै विनम्रम् अभिवादनम्।”केन्द्रीय–कृषि–किसान–कल्याण–मन्त्री शिवराज–सिंह–चौहानः अवदत्—“राष्ट्र–सेवायै समाजस्य दुर्बल–वर्गस्य उत्थानाय च समर्पितं भवतः ध्येयनिष्ठं जीवनं सर्वेषां कृते महत् प्रेरणास्रोतः अस्ति।”केन्द्रीय–शिक्षा–मन्त्री धर्मेन्द्र–प्रधानः अवदत्—“लाल–बहादुर–शास्त्री नैतिकतायाः, सरलताया:, राष्ट्रनिष्ठायाश्च सजीव: दृष्टान्तः आसीत्। अल्प–साधनैः अपि राष्ट्राय आत्मविश्वास–संकल्प–शक्तिं दत्तवान्। तस्य जीवनं सर्वेषां भारतवासिनां कृते प्रेरणास्रोतः अस्ति।”केन्द्रीय–आवास–नगर–कार्य–मन्त्री मनोहर–लालः अवदत्—“शास्त्रिणः कर्तव्यनिष्ठा जीवन–मूल्यानि च अद्यापि कोटिशः देशवासिनः कर्तव्य–मार्गे अग्रसरितुं प्रेरयन्ति।”भारतीय–जनता–दलस्य राष्ट्रीय–कार्यकारी–अध्यक्षः नितिन–नबीनः अवदत्—“शास्त्रिणः सारल्य–पूर्णं जीवनम्, अटल: संकल्पः, ‘जय जवान, जय किसान’ इति कालजयिमन्त्रश्च राष्ट्रम् आत्मबल–सम्पन्नं कृत्वा सेवा–कर्तव्य–मार्गे निरन्तरं प्रेरयिष्यति।”दिल्ली–मुख्यमन्त्री रेखा–गुप्ता अवदत्—“तस्य जीवनं राष्ट्र–सेवा, सरलता, सत्य–भावनायाश्च प्रतीकम् आसीत्। ‘जय जवान, जय किसान’ इति तस्य सन्देशः अद्यापि प्रत्येकं भारतवासी कर्तव्य–समर्पण–मार्गे प्रेरयति।”भाजपा–प्रवक्ता सम्बित–पात्रा अवदत्—“शुचितायाः, सरलताया:, कर्तव्यनिष्ठायाश्च आदर्श–प्रतिमानः, ‘जय जवान–जय किसान’ इति घोषकः, पूर्व–प्रधानमन्त्री ‘भारत–रत्न’–लाल–बहादुर–शास्त्री–महाभागः। तस्य त्यागमयं जीवनम् अस्माकं सर्वेषां कृते पाथेयम् अस्ति।”भाजपा–वरिष्ठ–नेता मुख्तार–अब्बास–नकवी अवदत्—“राजनैतिके सामाजिके च जीवने शुचितायाः सयलताया: प्रतिमूर्ति:, ‘जय जवान, जय किसान’ इति उद्घोषेण देशं प्रेरितवान् पूर्व–प्रधानमन्त्री ‘भारत–रत्न’–लाल–बहादुर–शास्त्री–महाभागः। तस्य पुण्यतिथौ श्रद्धासुमनः अर्पयामि।”

हिन्दुस्थान समाचार / अंशु गुप्ता