Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ११ जनवरीमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डाॅ.मोहन–यादवेन २०२६ वर्षं “कृषक–कल्याण–वर्षम्” इति रूपेण आचरितुं घोषितम्। अस्य कृषक–कल्याण–वर्षस्य औपचारिकः शुभारम्भः अद्य रविवासरे मध्याह्ने १२:३० वादने भोपाल–नगरे स्थिते जम्बूरी–क्षेत्रे भविष्यति।कार्यक्रमे मुख्यमन्त्री–महाभागः कृषक–संचलनं ध्वज–प्रदर्शनद्वारा शुभारम्भं करिष्यति। तेन सह कृषक–कल्याण–वर्षे सञ्चाल्यमानानां विविध–गतिविधीनां विषये प्रदेशस्य कृषकान् अवबोधयिष्यति। कार्यक्रमे सहभागिन: कृषकाः राज्य–सर्वकारस्य कृषक–हितैषी–योजनानां तथा कृषक–कल्याण–वर्षे सम्पाद्यमानानां कार्याणां विस्तृतां सूचनां प्राप्स्यन्ति।जनसम्पर्क–अधिकारी अरुण–शर्मा अवदत् यत् मुख्यमन्त्री–डाॅ.यादवः कथितवान्—कृषक–कल्याण–वर्षस्य प्रमुखानि केन्द्र–क्षेत्राणि उद्यानिकी, पशुपालनम्, डेयरी–व्यवसायः, मत्स्य–पालनम्, खाद्य–प्रसंस्करणं च सन्ति। कृषिं लाभप्रदां, स्थायिनीं तथा प्रौद्योगिकी–आधारित–रोजगार–सृजन–नमूना–रूपेण परिवर्तयितुं लक्ष्यं निर्धारितम् अस्ति।कृषि, उद्यानिकी, पशुपालनम्, मत्स्य–पालनम् तथा वाणिज्य–क्षेत्राणि एकीकृत्य जनपद–स्तरीय–क्लस्टर–आधारित–विकासस्य प्रोत्साहनं कर्तव्यं भविष्यति। उच्च–उत्पादकता, प्राकृतिक–कृषि, डिजिटल–सेवा, कृषि–प्रसंस्करणादिभिः कृषकाणाम् आय–वृद्धिः कर्तव्या अस्ति। एतदतिरिक्तंम् एग्री–टेक्, ड्रोन–सेवा, एफ.पी.ओ.–प्रबन्धनम्, खाद्य–प्रसंस्करणम्, हाइड्रोपोनिक्स् इत्यादिषु ग्रामीण–यूनां कृते रोजगार–अवसराः सृज्यन्ताम् इति अपि लक्ष्यं निश्चितम्।मुख्यमन्त्री–डाॅ.यादवः अपि उक्तवान् यत् कृषि–क्षेत्रं मध्यप्रदेशस्य अर्थव्यवस्थायाः आधारशिला अस्ति। राज्ये कृषक–कल्याणाय कृषि–व्ययनिर्धारणे निरन्तरं वृद्धि: क्रियते, कृषकाणां कृते बहवः योजनाः अपि सञ्चाल्यन्ते। तासु प्रमुखाः—समर्थन–मूल्ये कृषक–उत्पन्न–क्रयः,सोयाबीन–उत्पादक–कृषकाणां कृते भावान्तर–योजना,अतिवृष्टि-कीट–व्याधि-प्राकृतिक–आपदा–पीडित–कृषकाणां कृते सहायता–राशि–वितरणम्,प्रधानमन्त्री–फसल–बीमा–योजना,प्रधानमन्त्री–किसान–सम्मान–निधि:,मुख्यमन्त्री–किसान–कल्याण–योजना,मुख्यमन्त्री–कृषि–उन्नति–योजना,राणी–दुर्गावती–श्री-अन्न–प्रोत्साहन–योजना: च सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता