Enter your Email Address to subscribe to our newsletters

विवेकानन्द–यूथ–डायलॉग–कार्यक्रमे ग्वालियर–जिलाधिकारी युवभ्यः सफलताया: मन्त्रान् अददात्
ग्वालियर–नगरम्, ११ जनवरीमासः (हि.स.)। सफलतायाः कश्चन लघुमार्गः नास्ति। निरन्तर–परिश्रमः, सकारात्मक–चिन्तनम्, अनुशासितं जीवनं च एव सफलतां ददाति। लक्ष्यं प्रति पूर्ण–समर्पणम्, समयस्य सदुपयोगः, गुरून् प्रति सम्मानं विश्वासश्च – एते सर्वे सफलताया: मूल–मन्त्राः सन्ति। एतान् विचारान् रविवासरे “विवेकानन्द–यूथ–डायलॉग” विषयस्य संवाद–कार्यक्रमे ग्वालियर–जनपदस्य जनपदाधिकारी रुचिका–चौहानमहोदया विद्यार्थिभ्यः युवभ्यश्च सम्बोधनकाले व्यक्तवती।राष्ट्रीय–युवा–दिवसात् पूर्वदिने गुरुकुल–ड्रीम–फाउण्डेशन–संस्थया आयोजिते अस्मिन् कार्यक्रमे जनपदाधिकारी महोदया यूपीएससी–इत्यादि प्रतिष्ठित–प्रतियोगिता–परीक्षायां स्वीय–सफलतायाः अनुभवान् अपि अवर्णयत्। सा अवदत् यत् प्रतियोगी–परीक्षासु केवलम् अधिकं पठनं न पर्याप्तम्, अपि तु किं पठनीयम्, किं च न पठनीयम् – एतस्य विवेकस्य विकासः अत्यावश्यकः। स्वस्थ–सकारात्मक–प्रतिस्पर्धा, समूह–चर्चा तथा निरन्तर–आत्ममूल्याङ्कनम् अस्मान् सम्यग्दिशं प्रति नयन्ति।रुचिका–चौहानमहोदया युवभ्यः सामाजिक–माध्यमानां (सोशल–मीडिया) सीमित–विवेकपूर्ण–उपयोगस्य परामर्शं दत्त्वा ग्रन्थाध्ययनस्य महत्त्वं विशेषतया प्रतिपादितवती। सा उपभोक्तावादी–चिन्तनस्य न्यूनतां कर्तुं तथा ज्ञान–कौशल–चारित्र्य–निर्माणं प्राथमिकतया स्वीकरणीयम् इति आह्वानं कृतवती। सा अवदत् –“यः युवा आत्मनः विकासे निवेशं करोति, स एव भविष्यस्य नेतृत्वं करोति।”स्वीय–सम्बोधनकाले सा यून: रचनात्मक–चिन्तनस्य विकासाय, समाजे प्रकृतौ च संवेदनशीलतायै, पर्यावरण–संरक्षण–सम्बद्ध–कार्यक्रमेषु सक्रिय–सहभागितां कर्तुम् आह्वानं कृतवती।कार्यक्रमकाले जनपदाधिकारी महोदया यूनां जिज्ञासानां सरलतया आत्मीयतया च समाधानं कृतवती, येन संवादः अधिकं जीवनमय: अभवत्। कार्यक्रमस्य सन्देशः स्पष्टः आसीत् – सफलता न एकदिनस्य घटना, अपि तु अनुशासन–धैर्य–आत्मविश्वास–युक्ता निरन्तरा यात्रा अस्ति। सम्यक् मार्गदर्शनम्, स्पष्टं लक्ष्यं, अटल–विश्वासः च येषां सन्ति, ते यूनः न केवलं स्वयम् सफलाः भवन्ति, अपि तु समाजस्य राष्ट्रस्य च निर्माणे महत्त्वपूर्णां भूमिकां निर्वहन्ति।अस्मिन् कार्यक्रमे गुरुकुल–यूथ–फाउण्डेशन–संस्थापकः आकाश–बरूआ, मुकेश–अग्रवालः, अनन्त–शर्मा, आकाश–त्रिपाठी इत्यादिभि: सह अनेके युवान: विद्यार्थिन: च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता