Enter your Email Address to subscribe to our newsletters

जबलपुरम्, 11 जनवरीमासः (हि.स.)।मध्यप्रदेशस्य जबलपुरनगरे रविवासरे लोकनिर्माणमन्त्री राकेशसिंहस्य अध्यक्षतायां जबलपुरी-मटर-महोत्सवः 2026 अन्तर्गतं बायर-सेलर-मीट् इत्यस्य भव्यं शुभारम्भः होटल् रॉयल् ऑर्बिट् इत्यत्र सम्पन्नः। अस्मिन् अवसरे मन्त्री राकेशसिंहः अवदत् यत् एषः आयोजनः जबलपुरस्य कृते अत्यन्तं महत्त्वपूर्णः अस्ति। “एकः जनपदः–एकम् उत्पादम्” इति संकल्पनां देशस्य यशस्वी प्रधानमन्त्री नरेन्द्र-मोदी-महोदयः स्वकार्यशैलीनुसारं मूर्तरूपं दत्तवान् इति सः उक्तवान्।
राकेशसिंहः अवदत् यत् प्रत्येकस्मिन् स्थले किञ्चित् न किञ्चित् विशेषत्वं भवति, येन तं प्रदेशं समृद्धेः विकासस्य च मार्गे अग्रसरं कर्तुं शक्यते। जबलपुरे मटरः ओडीओपी (एकः जनपदः–एकम् उत्पादम्) योजनायाः अन्तर्गतं चयनितः अस्ति। सः अवदत् यत् यदा सः 2004 तमे वर्षे सांसदः अभवत्, तदा जबलपुरे मटरस्य बहुल-उत्पादनं दृष्ट्वा तस्य प्रोत्साहनाय एकां कार्यशालाम् अपि आयोजितवान्, किन्तु हवाई-सेवायाः अभावात् बहवः जनाः तत्र आगन्तुं न शक्तवन्तः। अनन्तरं अधिकं अनुसन्धानं कृत्वा ज्ञातं यत् मटर-उत्पादनस्य अभिलेखः छिन्दवाडा-जिलायाम् अस्ति। तथापि, जिला-प्रशासनस्य आवश्यक-प्रयासैः शनैः शनैः मटर-उत्पादनस्य अभिलेखः जबलपुरे अपि परिलक्षितः अभवत्। कालान्तरे अत्र मटर-प्रोसेसिङ्ग्-यूनिट् अपि स्थापिताः।
सः अवदत् यत् “एकः जनपदः–एकम् उत्पादम्” इति संकल्पना पुनः अवसरं ददाति यत् कृषिक्षेत्रे प्रधानमन्त्रिणः मोदिनः चिन्तनं साकारं कृत्वा सकारात्मकानि कार्याणि क्रियन्ताम्। 2026 तमे वर्षे किसान-कल्याण-वर्षः इति घोषणया सह अस्य आरम्भः कर्तव्यः। वर्तमान-सर्वकारे एव कृषकाणां समृद्धिः तथा तेषां उपजायाः समुचितं मूल्यं प्राप्तम्। मन्त्री राकेशसिंहः जबलपुरस्य उद्यमिभ्यः आग्रहं कृतवान् यत् ते मटर-उद्योगस्य विकासाय चिन्तनं कुर्वन्तु। सः रासायनिक-खादानां दुष्प्रभावान् अपि निर्दिश्य प्राकृतिक-कृषेः दिशि अग्रसरितुं आग्रहं कृतवान् तथा भारतं प्राकृतिक-कृषेः केन्द्रं (हब्) कर्तुं सर्वैः संयुक्तरूपेण प्रयत्नः करणीयः इति उक्तवान्।
तस्यैव प्रसङ्गे सः गुजरात-राज्यपालस्य आचार्य-देवव्रतस्य जबलपुरे आयोजितां प्राकृतिक-कृषि-संगोष्ठीं अपि स्मारितवान्। समाजस्य दिशानिर्देशकान् सः आह्वानं कृतवान् यत् आगामि-पीढ्यैः कृते उत्तमानि कार्याणि कर्तुं जनान् जागरूकान् कुर्वन्तु। सः सम्पूर्ण-मध्यप्रदेशस्य सह जबलपुरस्य अपि प्रगतये शुभकामनां दत्त्वा जबलपुरी-मटरस्य उत्तम-विपणनं कर्तुं आग्रहं कृतवान्, येन कृषकाणां उपजायाः अधिकं लाभं स्यात्। कृषिक्षेत्रे प्रधानमन्त्री-मोदी-महोदयस्य तथा मुख्यमंत्री डॉ. मोहन-यादवस्य चिन्तनं अग्रे नेतुं सः आह्वानं कृतवान्।
अस्मिन् अवसरे जिलाधिकारी राघवेन्द्रसिंहः अवदत् यत् ओडीओपी योजनायाः अन्तर्गतं मटरस्य क्षेत्र-विस्तारं, अधिकं व्यावसायिकीकरणं तथा कृषकाणां समुचितं मूल्यं सुनिश्चितं कर्तुं प्रधानमन्त्री-सूक्ष्म-खाद्य-प्रसंस्करण-उद्योग-योजना अन्तर्गतं लाभं ग्रहीतुं कृषकाः प्रेरणीयाः।
कार्यक्रमे जबलपुरी-मटरं “हरित-सुवर्णम्” इति संज्ञया अभिहितम्। अस्य राष्ट्रीय-परिचयं दातुं स्थानीय-कृषकाः, व्यापारीणः, स्टार्टअप्-संस्थाः च प्रोत्साहिताः, तथा खाद्य-प्रसंस्करणे विशेषः बलः दत्तः। अस्मिन् अवसरे जिला-पञ्चायत-अध्यक्षाः आशा-मुकेश-गोटिया, भाजपा-प्रदेश-कोषाध्यक्षः अखिलेश-जैनः, नगर-भाजपा-अध्यक्षः रत्नेश-सोनकरः, ग्रामीण-अध्यक्षः राजकुमार-पटेलः, कृषिक्षेत्रस्य उद्योग-जगतः च बहवः प्रतिष्ठित-नागरिकाः, तथा बहुसंख्यकाः बायर्-सेलर् च उपस्थिताः आसन्।
मटर-महोत्सवे मटर-आधारित-विविध-रेसिपी-प्रतियोगिता अपि आयोजिताभवत्। तत्र गृहिणी-समूहे वन्दना-साहू, होटल्-प्रतिनिधि-समूहे एम.पी.टी., विद्यार्थी-समूहे उत्कर्ष-वासनिकः, कृषक-समूहे सन्तोष-अग्रवालः प्रथम-विजेता अभवन्।
मन्त्री राकेशसिंहेन मेगा-ट्रेड-फेयर् 2.0 इत्यस्य अवलोकनम्
रविवासरे मन्त्री राकेशसिंहः होटल् एण्ड् रेस्टोरेंट् वेलफेयर् एसोसिएशन द्वारा होटल् रॉयल् ऑर्बिट् इत्यत्र आयोजितस्य मेगा-ट्रेड-फेयर् 2.0 इत्यस्य अवलोकनं कृतवान्। अस्मिन् अवसरॆ सः प्रत्येकं स्टॉल् निरीक्ष्य तेषां उत्पादानां विषये सूचनां प्राप्तवान् तथा प्रदर्शकान् उत्साहवर्धनं कृतवान्।
हिन्दुस्थान समाचार