Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 11 जनवरीमासः (हि.स.)।
राष्ट्रियस्वयंसेवकसंघस्य सरसंघचालकः मोहनभागवतः अवदत् यत् डॉ. केशवबलिरामहेडगेवारस्य जीवनमेव संघस्य आत्मा अस्ति, तथा च तस्य मूलमन्त्रः “भारतं सर्वोपरि” इति। राष्ट्रियस्वयंसेवकसंघः कालेन सह परिवर्तते न, अपि तु स्वमूलविचारैः, संस्कारैः, मूल्यम् च सह निरन्तरं विकसितो भवति।
राष्ट्रीयस्वयंसेवकसंघस्य शतवर्षीयां ऐतिहासिकां यात्रां आधारीकृत्य निर्मिता “शतकम्” इति चित्रपटस्य प्रथमं गीतं “भगवम् अस्माकं परिचयः” इति नाम्ना रविवासरे दिल्लीस्थिते केशवकुञ्जे आयोजिते विशेषसमारोहे लोकार्पितम्। संघस्य सरसंघचालकः डॉ. मोहनभागवत् गीतस्य औपचारिकं लोकार्पणं कृतवान्।
कार्यक्रमं सम्बोधयन् डॉ. भागवत् अवदत् यत् “शतकम्” इति चित्रपटः तथा तस्य गीतम् संघस्य राष्ट्रनिष्ठां, आन्तरिकबलं, सेवा भावं च प्रभावशालीरूपेण प्रकाशयतः। एषः चित्रपटः संघस्य ताः कथाः अपि प्रकाशयति याः अद्यावधि सामान्यजनसमक्षं न आगताः। डॉ. हेडगेवारे जनान् एकत्र संयोजयितुं अद्भुता क्षमता आसीत्। सः जीवनस्य कठिनान् आव्हानान् अपि समभावेन अभ्यपद्यत, एष एव गुणः अद्यापि संघस्य कार्यप्रणाल्यां दृश्यते। संघस्य विचारधारा न स्थिरा, अपि तु समाजस्य राष्ट्रस्य च आवश्यकतानुसारं निरन्तरं विकासशीला अस्ति।
सः अवदत् यत् “भगवम् अस्माकं परिचयः” इति गीतें भगवरङ्गः केवलं प्रतीकरूपेण न, अपि तु भारतस्य सभ्यतागतचेतनायाः परिचयरूपेण प्रस्तुतः। गीतें भगवम् त्यागस्य, तपस्यायाः, अनुशासनस्य, सेवायाः, आध्यात्मिकशक्तेः च प्रतीकं निरूपितम्। तत् समाजं सामूहिकचेतनया सह एकत्रीकृत्य राष्ट्रहिते कार्यकरणाय आह्वयति।
प्रसिद्धगायकः सुखविन्दरसिंहः स्वस्य ऊर्जावत्या स्वरया गीतं प्रभावशालि कृतवान्। संगीतकारस्य सनीइन्दरस्य सशक्ताः धुनयः तथा गीतकारस्य राकेशकुमारपालस्य ओजस्विनः शब्दाः गीताय उत्साहं भावनात्मकगाम्भीर्यं च प्रदत्तवन्तः।
अस्मिन् अवसरॆ सुखविन्दरसिंहः अवदत् यत् मोहनभागवतेन स्वगीतस्य लोकार्पणं तस्य कृते गौरवस्य आशीर्वादस्य च क्षणः अस्ति। एतत् गीतं तस्य कृते केवलं व्यावसायिकं कार्यं न, अपि तु राष्ट्रसेवा अस्ति। सः पूर्णमनसा एतत् गीतं गायत्, तथा च आशां व्यक्तवान् यत् एतत् प्रत्येकस्य भारतीयस्य हृदयं स्पृशेत्।
उल्लेखनीयं यत् “शतकम्” इति चित्रपटः १९२५ तमे वर्षे नागपुरे राष्ट्रीयस्वयंसेवकसंघस्य स्थापनात् आरभ्य अद्यावधिं यावत् तस्य शतवर्षीयां यात्रां दर्शयति। चित्रपटे संघस्य सामाजिकं सांस्कृतिकं राष्ट्रियं च योगदानं विस्तारतः प्रस्तुतम्। अस्य परिकल्पना अनिल् डी अग्रवालस्य अस्ति, निर्देशनम् आशीषमॉलस्य, निर्माणं वीरकपूरस्य च। सहनिर्माता आशीषतिवारी अस्ति। एषः चित्रपटः एडीए डिग्री एलएलपी इत्यनेन प्रस्तुतः।
---------------
हिन्दुस्थान समाचार