भारतस्य युवानः स्वसांस्कृतिकमूलमपि दृढयति : मोदी
​नव दिल्ली, 11 जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी रविवासरे अवदत् यत् भारतस्य युवजनाः स्वसंस्कृतिकमूलानि अपि दृढीकुर्वन्ति। सः अद्य विडियोसन्देशस्य माध्यमेन श्रीमद् विजयरत्नसुन्दर-सूरीश्वरजी-महाराजस्य पञ्चशततमग्रन्थस्य विमोचनसमारोहे एतद
प्रधानमंत्री नरेंद्र मोदी


​नव दिल्ली, 11 जनवरीमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी रविवासरे अवदत् यत् भारतस्य युवजनाः स्वसंस्कृतिकमूलानि अपि दृढीकुर्वन्ति। सः अद्य विडियोसन्देशस्य माध्यमेन श्रीमद् विजयरत्नसुन्दर-सूरीश्वरजी-महाराजस्य पञ्चशततमग्रन्थस्य विमोचनसमारोहे एतद् उक्तवान्। अस्य ग्रन्थस्य विषयः “प्रेमनु विश्व, विश्वनो प्रेम” इति अस्ति।

स्वीयविडियोसन्देशे सः अवदत्—

“भारतं अद्य विश्वस्य युवतमदेशेषु एकम् अस्ति, यत्र युवजनाः विकसितभारतस्य निर्माणं कुर्वन्ति तथा च स्वसंस्कृतिकमूलानि अपि सुदृढानि कुर्वन्ति। अस्मिन् परिवर्तनकाले महाराजसदृशानां सन्तानां मार्गदर्शनं तथा तेषां साहित्यं च महत्त्वपूर्णां भूमिकां वहति।”

सः अवदत् यत् एषः ग्रन्थः केवलं पुस्तकं न, अपि तु प्रेमशक्तेः परिचायकः मन्त्रः अस्ति। विशेषतः अद्य, यदा विश्वं विभाजनसंघर्षैः पीडितं वर्तते, तदा अस्य ग्रन्थस्य आवश्यकता पूर्वत एव अधिका अस्ति।

प्रधानमन्त्री मोदीः जैनदर्शनस्य मार्गदर्शकसिद्धान्तं “परस्परोपग्रहो जीवनम्” इति उक्त्वा तस्य अर्थं विवृणोत्। सः अवदत् यत् प्रत्येकं जीवनं अन्येन सह सम्बद्धम् अस्ति। यदा अस्य सिद्धान्तस्य बोधः भवति, तदा अस्माकं दृष्टिः व्यक्तेः परित्यज्य सामूहिकहितस्य दिशि प्रवर्तते, तथा च वयं व्यक्तिगताकाङ्क्षाभ्यः उपरि उत्थाय समाजस्य, राष्ट्रस्य, मानवतायाश्च लक्ष्येषु चिन्तयितुं प्रवृत्ताः भवामः।

सः अवदत् यत् महाराजस्य पञ्चशतं रचनाः विशालसागरवत् सन्ति, यत्र असंख्याः विचाररत्नानि निहितानि सन्ति, ये मानवतायाः समस्याभ्यः सरलान् आध्यात्मिकान् समाधानान् प्रस्तुतयन्ति।

नवकारमन्त्रदिवसस्य ऐतिहासिके अवसरे गृहीतान् नवसंकल्पान् प्रधानमन्त्री मोदीः अद्य पुनः स्मारितवान्, ये राष्ट्रस्य समाजस्य च उत्थानाय अनिवार्याः सन्ति। तेषु जलसंरक्षणम्, “एकं वृक्षं मातुः नाम्ना” रोपणम्, स्वच्छताभियानस्य प्रवर्धनम्, स्थानिकउत्पादानां प्रोत्साहनम्, भारतदर्शनस्य स्वीकरणम्, प्राकृतिककृषेः अवलम्बनम्, स्वस्थजीवनशैल्याः पालनम्, योगक्रीडादीनां जीवनस्य अङ्गीकरणम्, तथा च दरिद्राणां साहाय्यं कर्तुं संकल्पः अन्तर्भवन्ति।

---------------

हिन्दुस्थान समाचार