प्रधानमंत्री मोदी भगवान सोमनाथाय अर्पितं मराठी-उष्णीषम्, ज्ञायतां महत्वम्
सोमनाथः, 11 जनवरीमासः (हि.स.)। सोमनाथस्वाभिमानपर्वणि प्रधानमन्त्री नरेन्द्रमोदी सोमनाथमहादेवाय विशेषां पगडीं समर्पितवान्। एषा पगडी केवलं धार्मिकं समर्पणं न, अपि तु भारतीयस्वाभिमानस्य, सांस्कृतिकगौरवस्य तथा नारीशक्तेः उत्कृष्टसंकल्पस्य प्रतीकं वर्
सोमनाथ भगवान को प्रधानमंत्री ने अर्पित की मराठी पगड़ी


सोमनाथः, 11 जनवरीमासः (हि.स.)।

सोमनाथस्वाभिमानपर्वणि प्रधानमन्त्री नरेन्द्रमोदी सोमनाथमहादेवाय विशेषां पगडीं समर्पितवान्। एषा पगडी केवलं धार्मिकं समर्पणं न, अपि तु भारतीयस्वाभिमानस्य, सांस्कृतिकगौरवस्य तथा नारीशक्तेः उत्कृष्टसंकल्पस्य प्रतीकं वर्तते।

महाराणी अहिल्याबाई होल्कर भारतीयनारीशक्तेः, धैर्यस्य, सामर्थ्यस्य च शाश्वती प्रतीका आसीत्। तामेव भावनां प्रकाशयन्ती एषा पगडी सोमनाथसमित्या सम्बद्धाभिः महिलाभिः श्रद्धया निष्ठया च निर्मिता अस्ति। अस्यां विशेषपगड्यां एकविंशतिः पीताम्बराणि रजताभूषणैः सह सुन्दररूपेण संयोजितानि सन्ति। भारतीयसनातनपरम्परायां पगडी सम्मानस्य गौरवस्य च प्रतीकरूपेण मन्यते। पञ्जाबदेशस्य सिखपगडी, मराठीगुजरातीपगड्यौ, मैसूरदेशस्य पेटापगडी च—एतानि सर्वाणि भारतीयसम्मानस्य परिचयस्य च प्रतीकानि सन्ति।

अस्याः पगड्याः महत्त्वं केवलं पूजापर्यन्तं सीमितं न अस्ति। पूजानन्तरं शृङ्गारसमाप्तौ पगडीं विमोच्य तस्याः प्राप्तानि पीताम्बराणि साड्यश्च गुजरातराज्यस्य वृद्धाश्रमेषु, दिव्याङ्गगृहेषु, आदिवासीप्रदेशेषु च आवश्यकतानुसारं दीनजनानां मध्ये वितर्यन्ते। पीताम्बरैः झब्बान् निर्माय अपि वितरणं क्रियते। अद्यावधि एकविंशतिसहस्राधिकेभ्यः लाभार्थिभ्यः सोमनाथमहादेवस्य वस्त्रप्रसादः प्रापितः अस्ति, यः “दरिद्रनारायणसेवा” इत्यस्य अनुपमं उदाहरणं वर्तते।

---------------

हिन्दुस्थान समाचार