Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ११ जनवरीमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र-मोदी शनिवासर-रात्रौ श्री-सोमनाथ-न्यासस्य (ट्रस्टस्य) सदस्यैः सह सभां कृतवान्। अस्यां सभायां सोमनाथ-तीर्थयात्राम् अधिकं स्मरणीयां कर्तुं कथं शक्यते इति विषये विस्तृतः विचार-विमर्शः अभवत्।सभानन्तरं प्रधानमन्त्री मोदी ‘एक्स’ माध्यमे प्रकाशिते सन्देशे अवदत्—“सोमनाथे स्थितिः स्वयमेव सौभाग्यस्य अनुभूतिः अस्ति। एषः अस्माकं सभ्यतागत-वीरतायाः गौरवपूर्णः प्रतीकः अस्ति।”सः अवदत् यत् एषा यात्रा सोमनाथ-स्वाभिमान-पर्वणः अवसरॆ सम्पन्ना, यत्र सम्पूर्णं राष्ट्रं २०२६ तमे वर्षे सोमनाथ-मन्दिरस्य प्रथम-आक्रमणस्य सहस्र-वर्ष-पूर्तिं स्मरति। स: जनेभ्य: स्नेहपूर्ण-स्वागताय हृदयतः कृतज्ञता प्रदत्ता।प्रधानमन्त्री मोदी अन्यस्मिन् सन्देशे अवदत्—“अद्य सायं सोमनाथे श्री-सोमनाथ-न्यासस्य सभाया: अध्यक्षतां कृतवान्। मन्दिर-परिसरे आधारभूत-संरचनायाः उन्नयनसम्बद्धान् विभिन्नान् विषयान् समीक्षितवान् तथा सोमनाथ-तीर्थयात्राम् अधिकं स्मरणीयां कर्तुं उपायान् अपि चर्चितवान्।”
हिन्दुस्थान समाचार / अंशु गुप्ता