सोमनाथ स्वाभिमान पर्वणि सम्मिल्य प्रधानमंत्री अभिभूतः, सोशलमीडियापटले चित्राणि प्रसारितानि
सोमनाथः, 11 जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी सोमनाथ-स्वाभिमानपर्वे सहभागं कृत्वा अत्यन्तम् अभिभूतः अभवत्। सः शौर्ययात्रायामपि सहभागी अभवत्। प्रधानमन्त्रीणा सामाजिकमाध्यमेषु आयोजनस्य चित्राणि प्रकाशितानि, स्वीयान् उद्गारांश्च व्यक्तीक
प्रधानमंत्री नरेंद्र मोदी सोमनाथ स्वाभिमान पर्व में


यात्रा में लोगों का अभिवादन स्वीकार करते हुए प्रधानमंत्री मोदी


सोमनाथः, 11 जनवरीमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी सोमनाथ-स्वाभिमानपर्वे सहभागं कृत्वा अत्यन्तम् अभिभूतः अभवत्। सः शौर्ययात्रायामपि सहभागी अभवत्। प्रधानमन्त्रीणा सामाजिकमाध्यमेषु आयोजनस्य चित्राणि प्रकाशितानि, स्वीयान् उद्गारांश्च व्यक्तीकृताः।

रविवासरे प्रधानमन्त्री नरेन्द्रमोदीः स्वीयस्य एक्स् लेखे सोमनाथ-स्वाभिमानपर्वसम्बद्धानि कानिचन चित्राणि साझा कृत्वा अवदत्—

“शौर्ययात्रायां सहभागं कृत्वा अहम् अत्यन्तं गौरवान्वितः अस्मि। अस्मिन् अवसरे मन्दिररक्षणार्थं स्वप्राणान् उत्सृज्य बलिदानं कृतवतीनां मातृभारत्याः अनन्तानां वीरसन्तानानां श्रद्धाञ्जलिमर्पयितुं सौभाग्यं प्राप्तम्। तेषां अदम्यं साहसं पराक्रमश्च देशवासिनां सदैव प्रेरणां करिष्यतः।”

पूर्वं स्वीयेन सम्बोधने प्रधानमन्त्रीणोक्तम्—

“सोमनाथे अनुभूतिरस्ति, आनन्दोऽस्ति। सहस्रवर्षेभ्यः पूर्वं अस्माकं पूर्वजाः स्वजीवितं पणीकृतवन्तः। स्वीयाय आस्थायै, स्वीयाय विश्वासाय, स्वीयाय महादेवाय च ते सर्वस्वं न्योछावरितवन्तः। सहस्रवर्षेभ्यः पूर्वं आक्रमणकारिणः मन्यन्ते स्म यत् ते अस्मान् जितवन्तः, किन्तु अद्यापि सहस्रवर्षाणां अनन्तरं सोमनाथमहादेवस्य मन्दिरे फहरन्ती ध्वजा समग्रां सृष्टिम् आह्वयति यत् भारतस्य शक्तिः का, तस्य सामर्थ्यं किम् इति।”

रविवासरे एव प्रधानमन्त्री नरेन्द्रमोदीः गुजरातराज्यस्य गिर् सोमनाथ-जिलास्थिते पावने सोमनाथमन्दिरे आयोजितायां शौर्ययात्रायां सहभागी अभवत्। एषा यात्रा तेषां वीरयोद्धॄणां सम्मानार्थं निष्कासिता या प्राचीनकाले सोमनाथमन्दिरस्य रक्षणाय स्वप्राणान् न्योछावरितवन्तः। सोमनाथ-स्वाभिमानपर्वान्तर्गतायां अस्यां शौर्ययात्रायां अष्टोत्तरशतं अश्वानां प्रतीकात्मकं शोभायात्रा निष्कासिता, या भारतीयपरम्परायां वीरता-त्याग-बलिदानस्य प्रतीकत्वेन मन्यते। एतत् दृश्यं इतिहासस्य पृष्ठानिव जीवंतान् अकरोत्।

---------------

हिन्दुस्थान समाचार