एनएचएम कर्मचारिणां नव वर्षस्य उत्साहः आहतः, एतावता न लब्धं वेतनम्
शिमला, 11 जनवरीमासः (हि.स.)। नूतनं वर्षं सामान्यतया जनानां जीवने नवानि आशाः तथा आनन्दं वहति, किन्तु हिमाचलप्रदेशे राष्ट्रियस्वास्थ्यअभियानस्य (एनएचएम) अन्तर्गतं कार्यरतानां प्रायः पञ्चसहस्रषट्शतानां (५६००) कर्मचारीणां तथा तेषां परिवाराणां कृते वर
नेशनल हेल्थ मिशन


शिमला, 11 जनवरीमासः (हि.स.)।

नूतनं वर्षं सामान्यतया जनानां जीवने नवानि आशाः तथा आनन्दं वहति, किन्तु हिमाचलप्रदेशे राष्ट्रियस्वास्थ्यअभियानस्य (एनएचएम) अन्तर्गतं कार्यरतानां प्रायः पञ्चसहस्रषट्शतानां (५६००) कर्मचारीणां तथा तेषां परिवाराणां कृते वर्षस्य २०२६ आरम्भः अद्यावधि निराशाजनकः एव अस्ति। जनवरीमासस्य एकादशी तिथिः अपि अतिक्रान्ता, तथापि एतेषां कर्मचारीणां दिसम्बर् २०२५ मासस्य वेतनम् अद्यापि न प्राप्तम्। वेतनविलम्बेन न केवलं तेषां नववर्षोत्सवः निस्तेजः अभवत्, अपि तु बहूनां कर्मचारीणां समक्षं दैनन्दिनव्ययसमस्या अपि उत्पन्ना अस्ति।

प्रदेशे एनएचएम अन्तर्गतं प्रायः द्विसहस्रषट्शतानि (२६००) अनुबन्धकर्मचारिणः तथा प्रायः त्रिसहस्राणि (३०००) आउटसोर्स् कर्मचारीणः सेवां ददति। एते सर्वे स्वास्थ्यसेवायाः मेरुदण्डरूपेण मन्यन्ते तथा दुर्गमप्रदेशेषु अपि शासकीयस्वास्थ्ययोजनानां कार्यान्वयने महत्त्वपूर्णां भूमिकां निर्वहन्ति। कर्मचारीणां कथनम् अस्ति यत् ते पूर्णया ईमानदाऱ्या, समर्पणेन तथा उत्तरदायित्वेन स्वकर्तव्यं निर्वहन्ति, तथापि समये वेतनस्य अप्राप्तिः अत्यन्तं निराशाजनका अस्ति।

हिमाचलप्रदेशस्य एनएचएम अनुबन्धकर्मचारीसंघस्य पदाधिकारीणां कथनानुसारं दिसम्बर् मासस्य वेतनं जनवरीमासे प्राप्तव्यम् आसीत्, किन्तु अद्यावधि किमपि भुगतानं न कृतम्। वेतनाभावेन बहूनां कर्मचारीणां कृते गृहभाडं, बालकानां शुल्कं, बैंककिस्तयः तथा अन्ये आवश्यकव्ययाः पूरयितुं कठिनं जातम्।

वेतनविलम्बं प्रति कर्मचारीषु रोषः अपि वर्धते। एतस्यैव अनुक्रमे एनएचएम कर्मचारीसंघेन अद्य मण्डीनगरे राज्यस्तरीया बैठक् तथा सम्मेलनम् आहूतम् अस्ति। अस्यां संगोष्ठ्यां नवीना राज्यकार्यकारिणी गठिता भविष्यति, अपि च लम्बितवेतनम् सहितं अन्याः लम्बिताः मागाः तथा समस्याः विस्तरेण चर्च्यन्ते।

संघेन मुख्यमन्त्रिणः समीपं अपि अस्मिन् विषये व्यक्तिगतहस्तक्षेपस्य आग्रहः कृतः अस्ति। कर्मचारीणां कथनम् अस्ति यत् प्रदेशसर्वकारेण तथा स्वास्थ्यविभागेन अस्य समस्यायाः गाम्भीर्यं अवगत्य शीघ्रमेव वेतनप्रदानस्य व्यवस्था कर्तव्या, येन सहस्रशः परिवाराः राहतं प्राप्नुयुः।

अपरत्र एनएचएमस्य एकः वरिष्ठाधिकारी वेतनविलम्बस्य स्थितिं स्पष्टीकर्तुं प्रयत्नं कृतवान्। तस्य अनुसारं भारतसरकारतः तृतीयकिस्तस्य स्वीकृतिः प्राप्ता अस्ति तथा कर्मचारीणां वेतनप्रदानस्य प्रक्रिया आरब्धा अस्ति। तेन उक्तं यत् कर्मचारीभ्यः शीघ्रमेव वेतनं प्रदास्यते।

अधिकारीणाऽपि उक्तं यत् सम्पूर्णः एनएचएम प्रतिष्ठानः, मुख्यालयं सहितं, नवीना एसएनए स्पर्श प्रणालीमध्ये स्थानान्तरितः अस्ति। एतस्याः नव्यव्यवस्थायाः कारणेन एव भुगतानप्रक्रियायां अस्थायी विलम्बः अभवत्। आगामिषु मासेषु एषा व्यवस्था पूर्णतया सुचारु भविष्यति तथा पुनः एतादृशी समस्या न उत्पत्स्यते।

तथैव तेन एतदपि अवगतं कृतं यत् पूर्वं जनरल् केटेगरी सहितानां अन्येषां मदानां निधीनां परस्परसमायोजनेन वेतनं समये एव प्रदीयते स्म। किन्तु केन्द्रसरकारस्य प्रत्यक्षहस्तक्षेपेन तथा नव्याया भुगतानव्यवस्थायाः प्रवर्तनात् एषा प्रक्रिया अधिका जटिला अभवत्, येन वेतनविलम्बः जातः।

---------------

हिन्दुस्थान समाचार