प्रधानमंत्री मोदी सोमनाथे 108 अश्वैः सह शुभारब्धा शौर्य यात्रा सम्मिलिता
सोमनाथः (गुजरातम्), 11 जनवरीमासः (हि.स.)। प्रथमज्योतिर्लिङ्गस्य सोमनाथमहादेवस्य सान्निध्ये आयोजिते “सोमनाथस्वाभिमानपर्वणि” भागग्रहणाय प्रधानमन्त्री नरेन्द्रमोदी सोमनाथं आगतः अस्ति। अद्य द्वितीयदिने सः विशेषपूजार्चनानन्तरं भव्ये मार्गप्रदर्शने, अर्थ
सोमनाथ में प्रधानमंत्री मोदी की 108 अश्वों के साथ शौर्य यात्रा


सोमनाथः (गुजरातम्), 11 जनवरीमासः (हि.स.)। प्रथमज्योतिर्लिङ्गस्य सोमनाथमहादेवस्य सान्निध्ये आयोजिते “सोमनाथस्वाभिमानपर्वणि” भागग्रहणाय प्रधानमन्त्री नरेन्द्रमोदी सोमनाथं आगतः अस्ति। अद्य द्वितीयदिने सः विशेषपूजार्चनानन्तरं भव्ये मार्गप्रदर्शने, अर्थात् १०८ अश्वैः सह निर्गतायां शौर्ययात्रायां, सम्मिलितः अभवत्। अद्यैव सः राजकोटगान्धीनगरयोः कार्यक्रमेषु भागं ग्रहीष्यति।

आधिकारिकविज्ञप्त्यानुसारं प्रधानमन्त्रि प्रातः सर्किटहाउसात् सोमनाथमन्दिरं प्राप्तवान्। सः प्रायः पञ्चत्रिंशत् निमेषान् यावत् सोमनाथमहादेवस्य पूजार्चनां कृतवान्। तदनन्तरं सः शङ्खचक्रं (शङ्खसर्कल) प्राप्य एककिलोमीटरदीर्घायां शौर्ययात्रायां भागं गृहीतवान्। ततः सः सद्भावनाग्राउण्डस्थितं सभास्थलं गतवान्।

१०८ प्रशिक्षितैः अश्वैः सह आयोजितेयं शौर्ययात्रा भारतस्य पराक्रमपरम्परासंस्कृतेः भव्यं प्रतीकम् अस्ति। अस्याः यात्रायाः माध्यमेन सोमनाथस्य इतिहासे स्मरणीयः अध्यायः संयोजितः।

प्रधानमन्त्रि मध्याह्ने द्वादशवादनपञ्चचत्वारिंशत् (१२:४५) समये सोमनाथात् राजकोटं प्रति प्रस्थानं करिष्यति। राजकोटे सः मारवाडीविश्वविद्यालये आयोजितस्य सौराष्ट्रकच्छवाइब्रण्टसमिटस्य उद्घाटनं करिष्यति। ततः सः अहमदाबादं प्रति गमिष्यति। अहमदाबादविमानस्थानात् प्रधानमन्त्रि मार्गेण गान्धीनगरं गमिष्यति। गान्धीनगरे सायं पञ्चवादनपञ्चदश (५:१५) समये महात्मागान्धीमेट्रोस्थानस्य उद्घाटनं करिष्यति, रात्रौ च राजभवने विश्रान्तिं करिष्यति।

सुरक्षाव्यवस्था —सोमनाथे प्रधानमन्त्रिणः सुरक्षार्थं कटीबद्धा व्यवस्था कृता अस्ति। सोमनाथस्य पुलिसअधीक्षकः जयदीपसिंहजाडेजा अवदत् यत् प्रधानमन्त्रिणः कार्यक्रमं दृष्ट्वा जलस्थलनभःस्तरेषु सर्वत्र सुरक्षा व्यवस्था स्थापिता अस्ति। द्विसहस्राधिकाः पुलिसकर्मिणः नियुक्ताः सन्ति। अतिरिक्तं विंशतिः अधिकाः आईपीएसपदाधिकारिणः, विविधाः निरीक्षकाः तथा उपनिरीक्षकाः अपि नियोजिताः सन्ति।

हिन्दुस्थान समाचार