सोमनाथ–स्वाभिमान–पर्वणि मोदी–हीराबा–चित्रं नीत्वा रक्षा–परमारम् आगता, दृष्ट्वा सर्वे भावुकाः अभवन्
सोमनाथः, ११ जनवरीमास: (हि.स.)।सोमनाथ–स्वाभिमान–पर्वणः अन्तर्गतं आयोजितायां प्रधानमन्त्री नरेन्द्र–मोदी–महासभायां जनसागरः उद्भूतः। सम्पूर्णे सभास्थले भक्तेः, गौरवस्य च राष्ट्रभावनायाश्च अद्भुतः संगमः दृष्टः। अस्मिन् अवसरे सोमनाथ–निवासिनी रक्षा–परमार
सोमनाथ में खूब भावुक की हीराबा-मोदी की यह फोटो


सोमनाथः, ११ जनवरीमास: (हि.स.)।सोमनाथ–स्वाभिमान–पर्वणः अन्तर्गतं आयोजितायां प्रधानमन्त्री नरेन्द्र–मोदी–महासभायां जनसागरः उद्भूतः। सम्पूर्णे सभास्थले भक्तेः, गौरवस्य च राष्ट्रभावनायाश्च अद्भुतः संगमः दृष्टः। अस्मिन् अवसरे सोमनाथ–निवासिनी रक्षा–परमार: विशेषरूपेण स्वहस्तेन अंकन्या निर्मितं चित्र–रेखांकनं काष्ठ–फ्रेममध्ये संयोज्य सभायां समानीतवती।रक्षा–परमार: उक्तवती यत् प्रधानमन्त्री नरेन्द्र–मोदी–महोदयस्य तथा तस्य माता हीराबा–मातुः चित्रं मया स्वयमेव निर्मितम्। तत् चित्रं दृष्ट्वा जनाः भावविह्वलाः अभवन्। रक्षा–परमार: अवदत् यत् सोमनाथ–सदृशी पवित्रा भूमिः अस्याः जन्मभूमिः इति मम महत् गौरवम् अस्ति, अद्य तु एतत् गौरवम् अधिकतरं वर्धितम्।सा पुनरपि अवदत् —अटल–स्वाभिमानस्य तथा राष्ट्र–चेतनायाः प्रतीकं सोमनाथ–क्षेत्रं प्रभास–भूमिश्च प्रधानमन्त्रिण: नेतृत्वे वैश्विक–स्तरे विशिष्टं परिचयं प्राप्तवती।धन्या सा माता या एतादृशं यशस्विनं पुत्रम् अजनयत्।

हिन्दुस्थान समाचार / अंशु गुप्ता