Enter your Email Address to subscribe to our newsletters

— द्रमुकाय सत्तया अपसारयितुं संगठितः प्रतिबद्ध प्रयासः आवश्यकः
कोयंबटूरम्, 11 जनवरीमासः (हि.स.)।तमिलनाडुराज्यस्य कोयंबटूर्–जनपदस्य मुत्तलीपालायम्–प्रदेशे स्थिते एकस्मिन् निजीये विवाहमण्डपे रविवासरे भारतीयजनतापक्षेण (भाजपा) शक्तिकेन्द्रप्रभारिणां परामर्शसभा आयोजिताभवत्। अस्यां सभायां भारतीयजनतापक्षस्य राष्ट्रियकार्यकारी अध्यक्षः नितिन नबीनः सहभागीभूत्वा कार्यकर्तॄन् संबोधितवान्।
स्वीय संबोधने नितिन नबीनः अवदत् यत् शक्तिकेन्द्रप्रशासनस्य सशक्तया संगठितया च अनुशासितया कार्यप्रणाल्या एव भारतीयजनतापक्षो देशस्य अनेकेषु राज्येषु निरन्तरं निर्वाचनविजयान् प्राप्नोति। अष्टभ्यः जनपदेभ्यः आगतानां शक्तिकेन्द्रप्रभारिणां मध्ये दृश्यमानः उत्साहः, ओजः च समर्पणं च अस्य स्पष्टं संकेतं ददाति यत् आगामिषु निर्वाचनषु भारतीयजनतापक्षो द्रविडमुनेत्रकड़गम् पराजयितुं समर्था महच्छक्तिरूपेण उद्भविष्यति।
नितिन नबीनः ‘ऑपरेशन सिन्दूर’ इत्यस्य माध्यमेन भारतदेशेन पाकिस्तानाय प्रदत्तं सटीकं प्रभावशालीं प्रत्युत्तरं स्मारयन् अवदत् यत् स्वामी विवेकानन्देन प्रदर्शितेन मार्गेण अनुगच्छन्तः सर्वे स्तरस्थाः पदाधिकारीणः कार्यकर्तारश्च द्रविडमुनेत्रकड़गम् सत्तातः अपसारयितुं पूर्णया गम्भीरतया दृढया प्रतिबद्धतया च कार्यं कुर्वन्तु। सः अवदत् यत् सनातनधर्मविरोधिनां शक्तीनां पराजयं विना एषः संघर्षः न विरमेत्। सनातनपरम्परायाः भगवान् रामस्य च अपमानं कुर्वन्तीनां शक्तीनां विरुद्धं कठोरं प्रत्युत्तरं दातुं सर्वैः कार्यकर्तृभिः एकीकृत्य संघर्षः करणीयः।
भारतीयजनतापार्टीया राष्ट्रीयकार्यकारी अध्यक्षः शक्तिकेन्द्रप्रभारिणः आह्वानं कृतवान् यत् हिन्दुविरोधिनां शक्तीनां पराजयं कृत्वा प्रधानमन्त्रिणः नरेन्द्रमोदिना प्रवर्तिताः जनकल्याणकारीयोजनाः गृहे गृहे प्रचारयन्तु। सः अवदत् यत् केन्द्रसरकारया प्रवर्तिताः योजनाः समाजस्य अन्तिमपङ्क्तौ स्थितं व्यक्तिमपि लाभान्वितं कुर्वन्ति, तासां जनजनपर्यन्तं प्रचारणं पार्टीकार्यकर्तॄणां महत्त्वपूर्णा जिम्मेवारी अस्ति।
नितिन नबीनः सूचितवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिना नेतृत्वं कृत्वा केन्द्रसरकारया तमिलनाडुराज्यस्य विकासाय प्रायः षट्लक्षपञ्चाशत्सहस्रकोटिरूप्यकाणां वित्तीयसहायता प्रदत्ता। सः अवदत् यत् देशस्य राज्यस्य च विकासे बाधकभूताः शक्तयः मूलतः उन्मूलनीयाः इति अद्यतनस्य आवश्यकता अस्ति।
सभाकाले संगठनस्य सुदृढीकरणं आगामिनिर्वाचनरणनीतिः बूथस्तरपर्यन्तं कार्यकर्तॄणां सक्रियभूमिका च इत्यादिषु विषयेषु अपि विस्तरेण चर्चा अभवत्।--------
हिन्दुस्थान समाचार