Enter your Email Address to subscribe to our newsletters

कोयंबटूरम्, 11 जनवरीमासः (हि.स.)। द्विदिवसीयस्य कोयम्बटूरनगरस्य भ्रमणं कृत्वा आगतः भारतीयजनतापक्षस्य (भाजपा) राष्ट्रियकार्यकारी अध्यक्षः नितिननबीनः नगरे स्थितेषु प्रमुखेषु आध्यात्मिकस्थलेषु पेरूरपट्टीश्वररमन्दिरे मरुदमलै मुरुगन्मन्दिरे च विधिवत् दर्शनपूजनं कृतवान्। तस्य भ्रमणकाले संगठनात्मकक्रियाकलापैः सह तमिलनाडोः सांस्कृतिकपरम्परासु सक्रियभागीदारीमपि दृष्ट्वा भाजपाकार्यकर्तृषु विशेषः उत्साहः दृश्यते स्म।
कोयम्बटूरं प्राप्त्य अनन्तरं नितिननबीनः पक्षस्य वरिष्ठपदाधिकाऱिभिः उत्तरदायित्वयुक्तैः नेतृभिः सह प्रथमं गहनं विचारविमर्शं कृतवान्। अस्मिन् सन्दर्भे संगठनस्य सुदृढीकरणे, नूतनसदस्यानां पक्षे संयोजने, आगामिनां राजनीतिकरणनीतीनां विषये च विस्तरेण चर्चा अभवत्।
तत्पश्चात् सः प्राचीनं पेरूरपट्टीश्वररमन्दिरं गत्वा विशेषपूजार्चनां कृतवान् तथा मन्दिरस्य प्रसिद्धां हस्तिनीं “कल्याणीम्” कदलीफलानि दत्त्वा आशीर्वादं प्राप्तवान्। अनन्तरं सः मुरुगनदेवस्य सप्तमं पवित्रनिवासं मन्यमानं मरुदमलैमन्दिरं गतः, यत्र सः सुब्रमण्यस्वामिनः दर्शनं कृतवान्। तस्य यात्रां दृष्ट्वा मन्दिरपरिसरेषु कडा पुलिससुरक्षाव्यवस्था अपि स्थापिता आसीत्।
दर्शनपूजनानन्तरं नितिननबीनः वडावल्लीप्रदेशे आयोजिते तमिलजनानां प्रमुखे पर्वणि “पोंगलोत्सवे” अपि भागं गृहीतवान्। पारम्परिकतमिलवेषभूषां धारयित्वा सः तमिलसंस्कृतिं, परम्परां, कलां च विषये उपस्थिता जनसमूहं सम्बोधितवान्। अस्मिन् अवसरॆ भाजपायाः प्रदेशाध्यक्षः नैनारनागेन्द्रनः, पूर्वप्रदेशाध्यक्षः अन्नामलैः तथा अन्ये अनेके वरिष्ठपक्षनेतारः अपि उपस्थिताः आसन्।
नितिननबीनस्य एषा यात्रा संगठनात्मकसुदृढीकरणस्य सह सांस्कृतिकसंलग्नतायाः दिशि एकं महत्वपूर्णं पादं इति रूपेण परिगण्यते।----------
हिन्दुस्थान समाचार