Enter your Email Address to subscribe to our newsletters

तेहरानदेश:/वाशिङ्ग्टन, ११ जनवरीमास: (हि.स.)। ईराने गतवर्षस्य २८ दिसम्बर–दिनाङ्कात् आरभ्य माहर्गताविरुद्धं प्रवृत्तं जन–आन्दोलनम् इस्लामिक–गणराज्य–शासनस्य निश्चिन्ततां नष्टवान्। सर्वोच्चनेता आयतुल्लाह–अली–खामेनेईन प्रदर्शनकारिणः “दङ्गाकारिणः” इति सम्बोधिताः, येन जनानां क्रोधः अधिकतरो जातः। सम्पूर्णं राष्ट्रं हिंसया आक्रान्तम् अस्ति। सुरक्षा–बलैः नागरिकैः च सह संघर्षेषु महती जीव–धन–हानिः अभवत्। अनेकेषु स्थलेषु शासकीय–सम्पत्तयः दग्धाः। गुटिकाबर्षणे मृतानां जनानां विषये चिन्तां व्यक्तीकुर्वन् अमेरिकायाः राष्ट्रपतिः डोनाल्ड–ट्रम्पः ईरानं खामेनेई–शासनात् विमोक्तुं सङ्केतं दत्तवान्।४८ होराभ्यन्तरे न्यूनातिन्यूनं २००० जनाः मृताःईरान–इन्टरनेशनल इति माध्यमेन विविध–चलचित्र–दृश्याधारेण प्रसारितायां विस्तृत–सूचना वर्तमान–स्थितिः विवृता अस्ति। सूत्राणां कथनानुसारम् ईरानस्य सुरक्षा–बलानि देशव्यापि प्रदर्शनकारिषु प्राणघातकं बलप्रयोगं कुर्वन्ति। प्रारम्भिक–अनुमानेन सहस्रशः जनाः मृताः सन्ति।अष्ट–जनवरीतः ईराने अन्तर्जाल–सेवा स्थगिता अस्ति। तेहरानस्य दक्षिणभागे कहरीजाक–क्षेत्रात् प्राप्तेषु दृश्येषु अनेके शवा: दृश्यन्ते। एवमेव फरदीस, करज तथा पूर्व–तेहरानस्य अल्गादिर–चिकित्सालयात् अपि दृश्याणि प्रेषितानि।ईरान–इन्टरनेशनल–सूचनया अनुमानं कृतं यत् गत–४८ होराभ्यन्तरे न्यूनातिन्यूनं २००० जनाः मृताः। उत्तरी–नगरे मार्गे स्थितः एकः चिकित्सकः अवदत् यत् केवलम् एकस्मिन् चिकित्सालये एव ७० शवाः आनिताः। इलाम् तथा करमानशाह–पश्चिम–प्रान्तौ अपि हिंसया ग्रस्तौ स्तः।मातापित्रोः संचेतना — “यदि बालकानां रक्षणम् इच्छन्ति, तर्हि मार्गेभ्यः दूरं स्थापयन्तु”सूचनानुसारं जन–आक्रोशं स्वीकर्तुम् अथवा संवादं कर्तुं स्थाने ईरानस्य नेतृत्वं प्रदर्शनकारिषु कठोर–नीतिं अवलम्बते। शासकीय–दूरदर्शने निरन्तरं कथ्यते यत् स्थितिः पूर्णतया नियन्त्रणाधीना अस्ति।शुक्रवासरे तु जनानां प्रति संचेतना अपि प्रदत्ता। मातापित्रोः उच्यते—“यदि स्व–सन्ततिनां रक्षणं चिन्तयन्ति, तर्हि तान् मार्गेभ्यः दूरं स्थापयन्तु।”देशस्य अत्यधिकं द्रष्टव्येषु दूरदर्शन–वाहिन्यः एकया चैनल–३–इत्यनेन अशान्तिः राष्ट्रे योजनाबद्ध–आक्रमणम् इति कथिता। मौलिक–नागरिक–अधिकारान् याचमानानां प्रदर्शनकारिणां निन्दा कृता।चित्रेषु दृश्यते यत् सुरक्षा–बलानि सम्मर्दे अश्रुवात–गोलकान् क्षिपन्ति तथा गुटिकावर्षणं कुर्वन्ति। तेहरान–नगरस्य महापौरः अलीरेजा–जकानी अवदत् यत् राजधानी–नगरे प्रदर्शनकारिणः बहूनि बसयानानि तथा शासकीय–भवनानि दग्धवन्तः। सः अवदत्—“एते प्रदर्शनकारिणः न, अपि तु आतंकवादिनः सन्ति।”खामेनेई अवदत् — “बलप्रयोगेन एव प्रतिकारः भविष्यति”ईरानस्य शासकीय–दूरदर्शने गतदिने सर्वोच्चनेता अली–खामेनेई-इत्यस्य सम्पूर्ण–दिवस–भाषणं प्रसारितम्। तेन प्रदर्शनकारिणः विदेशीय–शत्रुभिः प्रेरिताः इति आरोपिताः। सः बलप्रयोगेन प्रतिकारस्य प्रतिज्ञाम् अपि अकरोत्।केषाञ्चन माध्यमेषु केवलं प्रदर्शनकारिणां हिंसा एव दर्शिता।शासन–प्रतीकेषु अपि आक्रमणम्जनानां क्रोधः एतावान् वर्धितः यत् शासनस्य प्रतीकानि अपि विनष्टानि। पूर्व–इस्लामिक–रिवोल्यूशनरी–गार्ड–कोरस्य कुद्स–फोर्स–सेनापतिः कासिम–सुलेमानी–इत्यस्य प्रतिमा अपि भूमौ पतिता।
“ईरानदेश: स्वतन्त्रतां प्रति पश्यति” — ट्रम्पः
अमेरिकायाः राष्ट्रपतिः डोनाल्ड–ट्रम्पः शनिवासर–रात्रौ ट्रुथ–सोशल–इत्यस्मिन् स्व–लेखने अवदत्—“ईरानदेश: स्वतन्त्रतां प्रति पश्यति। अमेरिका साहाय्याय सिद्धा अस्ति।”तस्मात् पूर्वं सः रिपब्लिकन–सेनेटर–लिन्डसे–ग्राहम–इत्यस्य लेखनं पुनः प्रकाशितवान्, यत्र विदेशमन्त्री मार्को–रुबियोन प्रदर्शनकारिणां समर्थनं कृतम् इति प्रशंसा तथा “मेक ईरान ग्रेट अगेन” इति घोषवाक्यं प्रयुक्तम्।ग्राहमः अवदत्—“सहायता आगच्छति। राष्ट्रपति ट्रम्पः ईरानं स्वतन्त्रं कर्तुं सिद्धः अस्ति। ईरान–जनानां स्वतन्त्रतायाः स्वप्नः शीघ्रं सिद्धः भविष्यति।”अमेरिकायाः प्रतिनिधिसभा–सदस्या क्लाउडिया–टेनी अपि अवदत्—“कृपया ईरानदेशे हिंसक–शासनस्य विरुद्धं स्थितानां साहसी–नर–नारीणां कृते मया सह प्रार्थनां कुर्वन्तु।”न्यू–यॉर्क–राज्यस्य प्रतिनिधिः स्व–एक्स–लेखने अवदत्—“क्रूर–तानाशाहस्य विरुद्धं शान्तिपूर्णं विरोधं कुर्वन्तः परिवाराः स्व–पुत्रान् दुहितॄन् च हरन्ति। एषः मौनस्य कालः न। मौनं केवलं हन्तॄणां बलं वर्धयति।”अनेकाः विमान–सेवाः ईरान–यात्रां स्थगितवन्तःफॉक्स–समाचार–विवरणानुसारं लुफ्थांसा, फ्लाई–दुबई, टर्किश–एयरलाइन्स, एजेट, पेगासस, कतर–एयरवेज, ऑस्ट्रियन–एयरलाइन्स इत्यादयः अनेकाः विमान–सेवाः ईरानं प्रति स्व–उड्डयनानि स्थगितवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता