(मुख्यवार्ता) सोमनाथ स्वाभिमान पर्व विध्वंसं न 1000 वर्षाणां यात्रायाः पर्व - प्रधानमंत्री मोदी
सोमनाथः, 11 जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदीः रविवासरे अवदत् यत् सोमनाथमन्दिरस्योपरि यः आक्रमणः कृतः सः आर्थिकलुटार्थं न, अपि तु तुष्टिकरणार्थं एव आसीत्। दुर्भाग्यवशात् अद्यापि अस्माकं देशे तादृश्यः शक्तयः विद्यमानाः सन्ति, ये सोमनाथ
सोमनाथ स्वाभिमान पर्व में सभा को संबोधित करते हुए प्रधानमंत्री नरेंद्र मोदी


सोमनाथः, 11 जनवरीमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदीः रविवासरे अवदत् यत् सोमनाथमन्दिरस्योपरि यः आक्रमणः कृतः सः आर्थिकलुटार्थं न, अपि तु तुष्टिकरणार्थं एव आसीत्। दुर्भाग्यवशात् अद्यापि अस्माकं देशे तादृश्यः शक्तयः विद्यमानाः सन्ति, ये सोमनाथमन्दिरस्य पुनर्निर्माणस्य विरोधं कृतवन्तः आसन्।

रविवासरे “सोमनाथ स्वाभिमानपर्व” इत्यस्य अवसरें सद्भावनाग्राउण्डे आयोजितायां राल्यां भाषमाणः सः अवदत्— “एतत् पर्व विध्वंसस्य न, अपि तु सहस्रवर्षीयायाः यात्रायाः पर्व अस्ति। सोमनाथं नाशयितुं अनेके प्रयत्नाः कृताः। एवं एव विदेशीयैः आक्रान्तैः बहुषु शताब्दिषु भारतं विनाशयितुं प्रयत्नाः कृताः, किन्तु न सोमनाथः नष्टः अभवत्, न च भारतः नष्टः अभवत्। यतः भारतं च भारतस्य आस्थाकेन्द्राणि च परस्परं अन्तर्भूतानि सन्ति।”

प्रधानमन्त्री अवदत्— “अद्य खड्गानां स्थाने अन्यैः उपायैः भारतस्य विरुद्धं षड्यन्त्राणि क्रियन्ते, अतः अस्माभिः अधिकं सावधानैः भवितव्यम्। आत्मानं शक्तिमन्तं कर्तव्यम्। याः शक्तयः अस्मान् विभक्तुं षड्यन्त्रं कुर्वन्ति, ताः सर्वाः पराजेतव्याः। यदा वयं स्वविरासतया आस्थया च सह सम्बद्धाः तिष्ठामः, तदा अस्माकं सभ्यतायाः मूलानि दृढानि भवन्ति। मया भारतस्य कृते सहस्रवर्षीयं दृष्टिवाक्यं स्थापितम्। अद्य देशस्य संस्कृतेः पुनर्जागरणं कोटिकोटि देशवासिनां हृदये विश्वासं पूरयति। विकसितभारतस्य विषये अपि जनानां दृढं भरोसं वर्तते। भारतः स्वगौरवं नूतनां उन्नतिं प्राप्स्यति। वयं विकासस्य नूतनाः ऊर्ध्वताः स्पृशामः। देशः अद्य सज्जः जातः। सोमनाथमन्दिरस्य ऊर्जा अस्माकं संकल्पान् आशीर्वदति, विरासतायाः प्रेरणां ददाति।”

सः अवदत्— “यदा महमूदगजन्यात् आरभ्य औरङ्गजेबपर्यन्तं आक्रमणानि क्रियमाणानि आसन्, तदा ते विस्मृतवन्तः यत् ‘सोमनाथ’ इति नाम्नि ‘सोम’ अर्थात् अमृतं निहितम् अस्ति। अतः यदा यदा तस्य नाशस्य प्रयासः अभवत्, तदा तदा सोमनाथमन्दिरं पुनः उत्थितम्। मजहबी कट्टरपन्थिनः इतिहासपुस्तकानां पृष्ठेषु सीमिताः अभवन्, किन्तु सोमनाथमन्दिरम् अद्यापि स्वाभिमानेन स्थितम् अस्ति।”

प्रधानमन्त्री अवदत्— “गजनी मन्यते स्म यत् सः सोमनाथमन्दिरस्य अस्तित्वं नाशितवान्, किन्तु द्वादशशताब्द्यां पुनर्निर्माणं अभवत्। ततः अलाउद्दीनखिल्जिना आक्रमणं कृतम्। चतुर्दशशताब्द्यां जूनागढस्य राज्ञा पुनर्निर्माणं कारितम्। पुनः आक्रमणं जातम्। ततः सुल्तान् अहमदशाहः दुस्साहसं कृतवान्। अनन्तरं सुल्तान् महमूदवेगडा मन्दिरं मस्जिदं कर्तुं प्रयत्नं कृतवान्। सप्तदश-अष्टादशशताब्द्यां औरङ्गजेबस्य कालः आगतः। तेन मन्दिरं अपवित्रं कर्तुं प्रयत्नः कृतः, किन्तु अहिल्याबाईहोल्करया मन्दिरं पुनर्निर्मितम्। सोमनाथस्य इतिहासः विजयस्य पुनर्निर्माणस्य च इतिहासः अस्ति।”

सः अवदत् यत् दुर्भाग्यवशात् स्वातन्त्र्यानन्तरं गुलामीमानसिकतायुक्तैः जनैः एतेषु विषयेषु उदासीनता दर्शिता। तं इतिहासं विस्मारयितुं निन्दनीयाः प्रयत्नाः कृताः। यदा भारतं दास्यबन्धनात् मुक्तम् अभवत्, यदा सरदारवल्लभभाईपटेलः सोमनाथपुनर्निर्माणस्य शपथं गृहीतवान्, तदापि तं निवारयितुं प्रयत्नाः अभवन्। सन् 1951 तमे वर्षे भारतस्य तत्कालीनः राष्ट्रपतिः डॉ. राजेन्द्रप्रसादः यदा आगतः, तदा अपि आपत्तिः प्रकटिता।

पूर्वं स्वसम्बोधनस्य आरम्भे सः अवदत्— “पवित्रे श्रीसोमनाथमन्दिरे अस्य महापर्वस्य सहभागी भवितुं मम जीवने अविस्मरणीयः अमूल्यश्च क्षणः अयम्। अद्य सोमनाथमन्दिरस्य पुनर्निर्माणस्य पञ्चसप्ततिवर्षाणि पूर्णानि जातानि। सहस्रवर्षेभ्यः पूर्वं अस्मिन् एव स्थाने कियान् वातावरणः आसीत् इति चिन्तनीयम्। अत्र उपस्थिता यूयं येषां पुरखाः, अस्माकं पुरखाः, स्वप्राणान् पणीकृतवन्तः। स्वास्थायै, स्वविश्वासाय, स्वमहादेवाय, सर्वस्वं न्योछावरं कृतवन्तः। सहस्रवर्षेभ्यः पूर्वं आक्रान्तारः मन्यन्ते स्म यत् अस्मान् जितवन्तः, किन्तु अद्य सहस्रवर्षाणां अनन्तरं अपि सोमनाथमहादेवमन्दिरे पताका फहरति, या सम्पूर्णसृष्टिं आह्वयति यत् हिन्दुस्तानस्य शक्तिः का, तस्य सामर्थ्यं किम्। सोमनाथस्वाभिमानपर्व कोटिकोटि भारतीयानां शाश्वतास्थायाः, साधनायाः, अटूटसंकल्पस्य च जीवन्तं प्रतिबिम्बम् अस्ति।”

सः अवदत्— “भारतः विश्वं न एतत् शिक्षितवान् यत् कथं अन्यान् पराजित्य जीवेत्, अपि तु कथं हृदयानि जितुं शक्यन्ते इति शिक्षितवान्। एषः विचारः अद्य विश्वस्य आवश्यकता अस्ति।”

सः आह्वानं कृतवान् यत् सहस्रवर्षीयायाः यात्रायाः सह मन्दिरस्य पञ्चसप्ततिवर्षाणां गौरवपूर्णां यात्रां स्मरन्तः 2027 तमस्य वर्षस्य मयमासपर्यन्तं सोमनाथस्वाभिमानपर्वं आचरन्तु।

ततः पूर्वं प्रधानमन्त्री मोदीः सोमनाथमन्दिरे प्रायः चत्वारिंशत् निमेषान् यावत् पूजार्चनां कृतवान्। शिवलिङ्गे जलं अर्पितवान्, ततः पुष्पाणि समर्पितवान्, पञ्चामृतेन च अभिषेकं कृतवान्। मन्दिरात् बहिः आगत्य सः पूजारिभिः स्थानीयकलाकारैः च सह मिलितवान्। मोदीः ढोलं (चेन्दा वाद्ययन्त्रम्) वादितवान्, शोभायात्रायां च सहभागी अभवत्। उल्लेखनीयम् अस्ति यत् सन् 1026 तमे वर्षे सोमनाथमन्दिरस्य प्रथमाक्रमणस्य सहस्रवर्षपूर्त्यवसरे “सोमनाथ स्वाभिमानपर्व” आचर्यते।

---------------

हिन्दुस्थान समाचार