Enter your Email Address to subscribe to our newsletters


नवदिल्ली, १० जनवरीमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र–मोदी शनिवासरात्रौ सोमनाथ–स्वाभिमान–पर्वण: अन्तर्गतम् आयोजितेषु कार्यक्रमेषु सम्मिलितुं सोमनाथं गतवान्। अस्मिन् अवसरे सः प्रथमतः ओंकार–जपस्य सामूहिके अनुष्ठाने सहभागम् अकरोत्। ततः अनन्तरं मन्दिर–परिसरे आयोजितं भव्यं ड्रोन–प्रदर्शनम् अपि अवलोकितवान्।ड्रोन–प्रदर्शने सोमनाथ–मन्दिरस्य सहस्रवर्षस्य गौरवपूर्णस्य इतिहासस्य सजीवं चित्रं दर्शितम्। दूर–दूरत: आगतैः भक्तैः नागरिकैश्च प्रधानमन्त्रिण: हार्दिकं स्वागतं कृतम्। सुप्रसिद्धः गायकः हंसराज–रघुवंशी स्वीयैः भक्तिगीतैः सम्पूर्णं वातावरणं भक्तिरसपूर्णं कृतवान्। जनाः तेषां गीतानां तालमेलनेन उल्लसिताः अभवन्।सोमनाथ–आगमने जनानाम् उत्साहं स्नेहपूर्णं स्वागतं च अभिनन्द्य प्रधानमन्त्री मोदी ‘एक्स’ माध्यमे चित्राणि प्रकाशितवान्। सः अवदत्—“सोमनाथ–स्वाभिमान–पर्वण: शुभावसरे सोमनाथ–मन्दिर–परिसरे दिव्य–भव्यतया सम्पन्नं ड्रोन–प्रदर्शनं दृष्ट्वा अहं धन्योऽस्मि। अस्मिन् अद्भुते प्रदर्शने प्राचीन-आस्थया सह आधुनिक–प्रौद्योगिक्याः सुन्दरं समन्वयनं सर्वान् मन्त्रमुग्धान् अकरोत्। सोमनाथस्य पावनभूमेः निर्गतः एषः प्रकाशपुञ्जः सम्पूर्णं विश्वं भारतस्य सांस्कृतिक–शक्तेः सन्देशं प्रेषयति।”अन्यस्मिन् सन्देशे सः ओंकार–जपस्य महत्त्वं प्रतिपादयन् अवदत्—“ॐ अस्माकं वेदानां, शास्त्राणां, पुराणानां, उपनिषदां वेदान्तस्य च सारः अस्ति।ॐ ध्यानस्य मूलम्, योगस्य आधारश्च अस्ति।ॐ एव साधनायां साध्यम्।ॐ शब्द–ब्रह्मणः स्वरूपम्।ॐ इत्यनेनैव अस्माकं मन्त्राः आरभ्यन्ते समाप्ताश्च भवन्ति।अद्य सोमनाथ–स्वाभिमान–पर्वणि सहस्र–क्षण–पर्यन्तं सामूहिकः ओंकार–नाद–उच्चारः कृतः। तस्य ऊर्जया अन्तर्मनः स्पन्दितं हर्षपूर्णं च जातम्।ॐ तत् सत्।”पूर्वं प्रधानमन्त्री मोदी श्री–सोमनाथ–न्यासस्य सदस्यैः सह महत्त्वपूर्णां सभाम् अपि कृतवान्।उल्लेखनीयम् यत् रविवासरे प्रधानमन्त्री मोदी प्रातःकाले सोमनाथ–मन्दिरे पूजन–अर्चनां करिष्यति तथा शोभायात्रायामपि सम्मिलितो भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता