राष्ट्रीय–वॉलीबॉल–प्रतियोगितायां महिला–पुरुष–वर्गयोः केरल–रेलवे–दलयोः मध्ये निर्णायक-क्रीडा
वाराणसीनगरम्, ११ जनवरीमास: (हि.स.)। उत्तरप्रदेशस्य वाराणसी–नगरे सिगरा–स्थिते डॉ.सम्पूर्णानन्द–क्रीडाङ्गणे प्रवर्तमाने ७२तमे वरिष्ठ–राष्ट्रीय–वॉलीबॉल–प्रतियोगितायां रविवासरे महिला–पुरुष–वर्गयोः केरल–रेलवे–दलयोः मध्ये अन्तिम–क्रीडा भविष्यति। नगर–निगम
वॉलीबॉल चैंपियनशिप


वाराणसीनगरम्, ११ जनवरीमास: (हि.स.)। उत्तरप्रदेशस्य वाराणसी–नगरे सिगरा–स्थिते डॉ.सम्पूर्णानन्द–क्रीडाङ्गणे प्रवर्तमाने ७२तमे वरिष्ठ–राष्ट्रीय–वॉलीबॉल–प्रतियोगितायां रविवासरे महिला–पुरुष–वर्गयोः केरल–रेलवे–दलयोः मध्ये अन्तिम–क्रीडा भविष्यति। नगर–निगमेन आयोजितायाम् अस्यां प्रतियोगितायां शनिवासरे सायं यावत् महिला–पुरुष–वर्गयोः अर्ध–अन्तिम–क्रीडासु अत्यन्तं मनोरंजकं संघर्षपूर्णं दृश्यं दृष्टिगोचरं जातम्।महिला–वर्गे केरल–रेलवे–दलयोः तथा पुरुष–वर्गे रेलवे–केरल–दलयोः स्व–स्व–क्रीडासु विजयम् आप्य निर्णायकस्पर्धायां स्थानं सुनिश्चितं कृतवन्तः।

महिला–वर्गः

महिला–वर्गस्य प्रथमा अर्ध–अन्तिम–स्पर्धा केरला–हरियाणा–दलयोः मध्ये अभवत्। अतीव मनोरञ्जके संघर्षपूर्णे च अस्यां स्पर्धानाम् केरल–दलेन हरियाणा–दलं ३–० अङ्कैः पराजितः, येन केरल–दलम् अन्तिम–स्पर्धाया प्रवेशं कृतवान्।

द्वितीया अर्ध–अन्तिम-स्पर्धा रेलवे–राजस्थान–दलयोः मध्ये सम्पन्ना। अत्र रेलवे–दलेन राजस्थान–दलं ३–१ अङ्कैः पराजितः, येन रेलवे–दलम् अपि अन्तिम–स्पर्धाया: कृते पात्रतामाप्नोत्।

पुरुष–वर्गः

अतीव मनोरंजके संघर्षपूर्णायां च स्पर्धायां रेलवे–दलेन सर्विसेज–दलं ३–२ अङ्कैः पराजितः। पञ्च–सेट्–पर्यन्तं चलितायां अस्यां स्पर्धायां रेलवे–दलेन धैर्यं निर्णायक–क्षणेषु च कौशलं प्रदर्श्य सर्विसेज–दलस्य अन्तिम–स्वप्नं भङ्गीकृतम्।अन्यस्याम् अर्ध–अन्तिम–स्पर्धायां केरल–दलेन पंजाब–दलं ३–० अङ्कैः पराजितः। प्रारम्भादेव उभय–दलयोः मध्ये तीव्र: संघर्षः दृष्टः, किन्तु केरल–दलस्य आक्रामक–स्मैश–प्रहाराः तथा सटीक–ब्लॉक–प्रयोगाः पंजाब–दलस्य प्रतिरोधं दुर्बलं कृतवन्तः। केरल–दलेन २५–२३, २५–२३ तथा २५–२२ अङ्कैः विजयः प्राप्तः।अन्तिम–स्पर्धा–कार्यक्रमःप्रतियोगितायाः अन्तिम–दिने रविवासरे क्रीडाङ्गणस्य कोर्ट–नम्बर–१ तथा २ मध्ये महिला–पुरुष–वर्गयोः हार्डलाइन–स्पर्धा एकसहैव प्रारभ्स्यते।महिला–वर्गस्य अन्तिम–स्पर्धा प्रातः १०:३० वादने तथा पुरुष–वर्गस्य अन्तिम–स्पर्धा अपराह्णे १:३० वादने आरभ्स्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता