एआई–पेनेट्रेशन–क्षेत्रे भारतदेश: प्रथमस्थानं प्राप्तवान् — जितिन–प्रसादः
मुख्यमन्त्री-केन्द्रीयराज्यमन्त्रिभ्यां च “उत्तरप्रदेश–एआई–स्वास्थ्य–नवाचार–सम्मेलनम् २०२६” उद्घाटितम् ग्रामीण–भारतस्य जनतायै एआई–लाभस्य सुनिश्चितीकरणे जितिन–प्रसादेन बलम् दत्तम् लखनऊनगरम्, १२ जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी–आ
एआई और स्वास्थ्य नवाचार सम्मेलन में मंचासीन मुख्यमंत्री योगी आदित्यनाथ व केन्द्रीय मंत्री जितिन प्रसाद


कार्यक्रम में बोलते हुए केन्द्रीय मंत्री जितिन प्रसाद


मुख्यमन्त्री-केन्द्रीयराज्यमन्त्रिभ्यां च “उत्तरप्रदेश–एआई–स्वास्थ्य–नवाचार–सम्मेलनम् २०२६” उद्घाटितम्

ग्रामीण–भारतस्य जनतायै एआई–लाभस्य सुनिश्चितीकरणे जितिन–प्रसादेन बलम् दत्तम्

लखनऊनगरम्, १२ जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी–आदित्यनाथः केन्द्रीय–मन्त्री जितिन–प्रसादेन सह, उपमुख्यमन्त्री ब्रजेश–पाठकः तथा राज्यमन्त्री अजीत–पालः च सोमवासरे द्विदिवसीयस्य “उत्तरप्रदेश–एआई–स्वास्थ्य–नवाचार–सम्मेलनम् २०२६” इत्यस्य उद्घाटनं कृतवन्तः।अस्मिन् अवसरे केन्द्रीय–आईटी–इलेक्ट्रॉनिक्स–राज्यमन्त्री जितिन–प्रसादः अवदत् यत् प्रधानमन्त्री नरेन्द्र–मोदिन: नेतृत्वे भारतम् अधुना विश्वस्य चतुर्थी महती अर्थव्यवस्था अभवत्। अपि च एआई–पेनेट्रेशन–क्षेत्रे भारतदेश: प्रथमस्थानं प्राप्तवान् अस्ति। देशे च चलदूरवाणी–सम्पर्काणां संख्या १०० कोट्यधिकम् अभवत्।सः अवदत् यत् भारतदेश: शीघ्रमेव “विश्वस्य एआई–सेवा–प्रदाता” भविष्यति, यस्मिन् उत्तरप्रदेशस्य महती भूमिका भविष्यति। सम्पूर्णे उत्तरप्रदेशे अन्तर्जाल–जालं विस्तारितम् अस्ति। एआई–क्षेत्रे प्रदेशे महती प्रगति: जाता, तथापि साइबर–भयः तथा डीप–फेक् इत्यादयः समस्या: अपि सन्ति।केन्द्रीय–मन्त्री अवदत् यत् ग्रामीण–भारतस्य जनतायाः एआई–लाभः अवश्यं प्रापणीय:। कृषि-स्वास्थ्य-शिक्षा-पर्यावरण–क्षेत्रेषु एआई–प्रयोगः क्रियते। यदा जनभावना सर्वकारेण सह भवति, तदा निर्णायक–निर्णयाः गृह्यन्ते। डीप–फेक् माध्यमेन जनाः हानिं प्राप्नुवन्ति, एतत् न सोढव्यम्। डीप–फेक्–निवारणाय केन्द्रीय–सर्वकारः प्रतिबद्ध: अस्ति।सः अवदत् यत् “इण्डिया–एआई–इम्पैक्ट–समिट्” १५–२० फरवरी–मासस्य मध्ये नव–दिल्ली–नगरे भविष्यति। तस्मात् निर्गच्छन्तः विचारा: राष्ट्रीय–नीतिं तथा वैश्विक–एआई–विमर्शं दिशं दास्यन्ति।अस्मिन् अवसरे चिकित्सा–स्वास्थ्य–चिकित्सा–शिक्षा–विभागस्य अपर–मुख्य–सचिवः अमित–कुमार–घोषः,आईटी–इलेक्ट्रॉनिक्स–विभागस्य प्रमुख–सचिवः अनुराग–यादवः,मुख्यमन्त्रिणः सलाहकारः अवनीश–अवस्थी,नीति–आयोगः, राष्ट्रीय–स्वास्थ्य–प्राधिकरणम्,केन्द्रीय–इलेक्ट्रॉनिक्स–सूचना–प्रौद्योगिकी–मन्त्रालय:,विश्व–स्वास्थ्य–संगठनम् (WHO), विश्व–धनागार:, गेट्स–फाउण्डेशनसंस्था, गूगल इत्यादयःदेश–वैदेशीयाः एआई–स्वास्थ्य–विशेषज्ञाः च सम्मेलने उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता