Enter your Email Address to subscribe to our newsletters

श्रीहरिकोटा, १२ जनवरीमासः (हि.स.)। भारतीय–अन्तरिक्ष–अनुसन्धान–संस्थायाः (इसरो) पीएसएलवी–C62 / ईओएस–एन1 अभियानं रविवासरे प्रौद्योगिकी–दोष-कारणात् असफलः घोषितः अभवत्। अस्मिन् अभियाने रक्षा–अनुसन्धान–विकास–संस्थया (डीआरडीओ) विकसितः अत्यन्त–गोपनीयः हाइपर–स्पेक्ट्रल–निरीक्षण–उपग्रहः ‘अन्वेषा’ प्रक्षिप्तः आसीत्, किन्तु प्रक्षेपणास्त्रस्य तृतीय–चरणस्य (PS3) अन्तिम–स्थितौ उत्पन्न–दोषात् सः निर्धारितां कक्षां न प्राप्नोत्।इसरो–संस्थया अवदत् यत् अभियान–काले पीएसएलवी–प्रक्षेपणास्त्रस्य उड्डयन–क्रमः सामान्यतया प्रवर्तते स्म, किन्तु तृतीय–चरणस्य अन्ते –प्रक्षेपणास्त्रं मार्गात् विचलितम्, येन पेलोडः अपेक्षित–कक्षायां निवेशितुं न शक्यः अभवत्। ततः परम् इसरो–संस्थया अभियानम् असफलम् इति घोषितम्, तथा विस्तृत–प्रौद्योगिकी–विश्लेषणम् आरब्धम्।वस्तुतः एतत् इसरो–संस्थायाः चतु:षष्टितमं पीएसएलवी–अभियानम् आसीत्, यत् आन्ध्र–प्रदेशस्य श्रीहरिकोटा–स्थित–सतीश–धवन–अन्तरिक्ष–केन्द्रात् प्रातः १०:१८ वादने प्रक्षिप्तम् अभवत्। अस्य उड्डयनस्य माध्यमेन षोडश उपग्रहाः अन्तरिक्षे प्रेषणीयाः आसन्, तेषु ‘अन्वेषा’ उपग्रहः प्रमुख–पेलोडः आसीत्।पूर्वमेव इसरो–संस्थया सूचितं यत् ‘अन्वेषा’ एकः अत्याधुनिकः हाइपर–स्पेक्ट्रल–इमेजिङ्ग–उपग्रहः अस्ति, यः वनानां गह्वरात् आरभ्य युद्ध–क्षेत्रेषु निगूढ–सूक्ष्म–वस्तूनाम् अपि परिचयं कर्तुं समर्थः अस्ति। सः पर्यावरण–निरीक्षणे, संसाधन–मानचित्रणे, सामरिक–निरीक्षणेन च सह भारतस्य रक्षा–निरीक्षण–क्षमतां सुदृढां कर्तुं नियुक्तः आसीत्।यद्यपि अभियानस्य असफलतया इसरो–संस्थायाः तथा रक्षा–प्रतिष्ठानस्य अपि आघातः जातः, तथापि वैज्ञानिकैः स्पष्टं कृतं यत् दोष–कारणानां गहन–अन्वेषणम् क्रियते, येन भविष्ये एतादृशाः त्रुटयः न उत्पद्येरन्।उल्लेखनीयम् यत् एतत् २०२६ वर्षे इसरो–संस्थायाः प्रथमः प्रक्षेपण–अभियानम् आसीत्। अपि च एतत् न्यू–स्पेस–इण्डिया–लिमिटेड् (NSIL) संस्थायाः नवमं वाणिज्य–अभियानम् आसीत्, यत् तकनीकी–दोषात् सफलं न अभवत्।
हिन्दुस्थान समाचार / अंशु गुप्ता