Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्, १२ जनवरीमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री श्री डॉ.हिमंत–बिस्वा–सरमा स्वामी–विवेकानन्द–जयन्ती–अवसरे श्रद्धांजलिम् अर्पितवान्। तेन स्वामी–विवेकानन्देन प्रतिपादिताः आदर्शाः दर्शनञ्च वंशानुवंशं प्रत्येकं भारतीयाय प्रोत्साहनरूपेण अग्रे गन्तुं प्रेरयन्ति इति सामाजिक–माध्यमे स्वसंदेशे उक्तम्। तेन अग्रिम-स्वामी–विवेकानन्दस्य विचाराणां प्रासंगिकता निरन्तरा भविष्यति इति अभिप्रायं व्यक्तम्। स्वामी–विवेकानन्दस्य चिरस्मरणीयं व्यक्तित्वम् इति वदन्, तेषां विचाराः राष्ट्रनिर्माणे सर्वदा मार्गदर्शकस्य भूमिकां निर्वहिष्यन्ति इति उद्घोषितम्। डॉ.सरमा यून: प्रति दृढं विश्वासं व्यक्तवान्। तेन उक्तम् – यून: सर्वा: समस्या: समाधातुं दृढतया सक्षमा: सन्ति, स्वामी–विवेकानन्दस्य विचारैः प्रेरिताः च राष्ट्राय नवीनदिशं प्रदास्यन्ति इति पूर्णविश्वासः मम अस्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani