Enter your Email Address to subscribe to our newsletters

भोपालम्, 12 जनवरीमासः (हि.स.)।मध्यप्रदेशस्य राजधानी भोपालनगरस्य रवीन्द्रभवने प्रवर्तमानायाः द्विदिवसीयायाः मध्यप्रदेश स्टार्टअप् समिट् २०२६ इत्यस्य द्वितीयदिने अद्य सोमवासरे मुख्यमंत्री डॉ. मोहन यादवः समिटस्य शुभारम्भं करिष्यति तथा प्रदर्शनीम् अपि उद्घाटयिष्यति। अस्मिन् अवसरे सूक्ष्मलघुमध्यमोद्यममन्त्री चेतन्यकुमार काश्यपः अपि विशेषरूपेण उपस्थितः भविष्यति।
जनसम्पर्काधिकारी राजेश बैनः अवदत् यत् शुभारम्भः स्टार्टअप् पिचिङ् सत्रस्य फाइनल्स् इत्यनेन भविष्यति, यस्मिन् चयनिताः स्टार्टअप्स् स्वीयानि नवाचाराणि, विस्तारक्षमतां तथा निवेशसम्भावनाः विशेषज्ञजूरीसमक्षं प्रस्तुतयिष्यन्ति। अस्यैव सह शासनस्य, निवेशकानां तथा स्टार्टअप् इकोसिस्टम् इत्यस्य वरिष्ठप्रतिनिधीनां गरिमामयी उपस्थिति अपि भविष्यति।
तदनन्तरं मुख्यमंत्री डॉ. यादवेन स्टार्टअप् एवं इनोवेशन प्रदर्शनी उद्घाटिता भविष्यति, यस्यां प्रदेशस्य स्टार्टअप्स् द्वारा विकसिताः अत्याधुनिकाः प्रौद्योगिकयः, उत्पादाः तथा समाधानानि प्रदर्श्यन्ते। ततः हंसध्वनि सभागारे आयोजिते उद्घाटनसत्रे दीपप्रज्वलनं, अतिथीनां अभिनन्दनं तथा नीतिकेन्द्रितानि संबोधनानि भविष्यन्ति। उद्घाटनसत्रे मुख्यसचिवः अनुराग जैनः विभागीयाधिकारीणां सह संबोधनं करिष्यति। तत्रैव अंकित अग्रवालः बीमा क्षेत्रस्य संस्थापकः मुख्यकार्यकारीधिकारी च तथा विनीत रायः आविष्कार् समूहस्य संस्थापकः की नोट् संबोधनं दास्यतः।
अस्मिन् अवसरॆ स्टार्टअप् पुरस्कारसमारोहः, स्टार्टअप् सक्सेस् स्टोरीज् कम्पेण्डियम् इत्यस्य विमोचनं, एमओयू एक्स्चेन्ज् अपि सम्पन्नं भविष्यति। समिटस्य अन्ते मुख्यमंत्री डॉ. यादवस्य अध्यक्षतायां स्टार्टअप्स्, निवेशकाः तथा इकोसिस्टम् भागीदारैः सह एकं उच्चस्तरीयं गोलमेजसम्मेलनम् अपि आयोजितं भविष्यति।
अपराह्णे संगोष्ठ्याम् अनुभवानां साझाकरणसत्राणि, महिलाउद्यमिता, इन्फ्लुएंसर् तथा डिजिटल् मार्केटिङ्, वैश्विकविस्तारः एवं निर्यातावसराः, तथा स्टार्टअप् वृद्धिमानदण्डाः इत्यादिषु विषयेषु विविधानि थीमैटिक् सत्राणि आयोजितानि भविष्यन्ति।
---------------
हिन्दुस्थान समाचार