Enter your Email Address to subscribe to our newsletters

रायपुरम्, 12 जनवरीमासः (हि.स.)।
मुख्यमन्त्री विष्णुदेवसायः रविवासरे सायंकाले मुख्यमन्त्रिनिवासकार्यालये आयोजितायां सांसदसङ्कुलविकासपरियोजनायाः समीक्षाबैठके संबोधनं कृत्वा अवदत् यत् जनजातीयविकासः सांसदसङ्कुलविकासपरियोजनया शीघ्रतां प्राप्स्यति। सः अवदत् यत् अस्याः योजनायाः अन्तर्गतं जनानां स्वरोजगारेण संयोजनाय महत्त्वपूर्णाः प्रथमाः क्रियमाणाः सन्ति, येन जनजातीयप्रदेशेभ्यः पलायनस्य निरोधः भविष्यति।
मुख्यमन्त्री सायः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनो नेतृत्वे जनजातीयप्रदेशान् विकासस्य मुख्यधारया संयोजयितुं निरन्तरं प्रयासाः क्रियमाणाः सन्ति। सांसदसङ्कुलविकासपरियोजनायाः अन्तर्गतं ग्रामाणां सङ्कुलरूपेण संयोजनं कृत्वा विकासमॉडेलः विकसितः क्रियते, यस्य प्रत्यक्षः लाभः जनानां प्राप्यते। स्थानीयसंसाधनानां समुचितोपयोगेन जनानां कौशलविकासं कृत्वा तान् स्वरोजगारमार्गे अग्रे नयितुमेव अस्याः योजनायाः मुख्योद्देश्यः अस्ति।
मुख्यमन्त्री सायः अवदत् यत् छत्तीसगढराज्यं धानस्य कटोरारूपेण प्रसिद्धम् अस्ति। अत्र धानस्य अनेकाः जातयः सन्ति, यासां निर्यातस्य विशालाः सम्भावनाः सन्ति। कृष्याः सह मत्स्यपालनं, अजीपालनं, गौपालनं, शूकरपालनं च ग्रामीणैः सह संयोज्य तान् आर्थिकरूपेण सशक्तान् कर्तुं शक्यते। अस्माकं जनजातीयजनाः महुआ, इमली, चिरौंजी इत्यादीनां वनोपजानां परम्परागतं उत्पादनं कुर्वन्ति, तेषां मूल्यवर्धनं कृत्वा तानि विपण्या सह संयोज्यन्ते।
मुख्यमन्त्री सायः अवदत् यत् राज्यस्य नवोद्योगनीत्यां अनुसूचितजाति अनुसूचितजनजातीनां उद्यमिभ्यः विशेषाः प्रावधानाः कृताः सन्ति। सांसदसङ्कुलविकासपरियोजनया सम्बद्धाः जनप्रतिनिधयः विकाससहयोगिनश्च सुनिश्चितं कुर्वन्तु यत् जनजातीयप्रदेशेषु नवोद्योगनीतेः लाभाः अपि प्राप्यन्ताम्। सांसदसङ्कुलविकासपरियोजनायाः उत्तमक्रियान्वयनार्थं नोडलअधिकारीणां नियुक्तिः अपि क्रियते।
उपवेशने वी सतीशः सांसदसङ्कुलविकासपरियोजनायाः परिकल्पनां लक्ष्याणि च विषये प्रकाशं कृतवान्। सः अवदत् यत् जनजातीयप्रदेशेषु जनान् स्वरोजगारेण संयोज्य पलायननिरोधदिशि अस्याः योजनायाः अन्तर्गतं महत्त्वपूर्णं कार्यं क्रियते। अस्याः योजनायाः अन्तर्गतं गुजरात राजस्थान महाराष्ट्र मध्यप्रदेश छत्तीसगढ झारखण्ड ओडिशा पश्चिमबङ्गाल इत्यादिषु जनजातीबहुलराज्येषु आमजनैः एनजीओभिः जनप्रतिनिधिभिः सरकारेण च समन्वितप्रयासेन समग्रविकासः क्रियते।
कृषिमन्त्री रामविचारनेतामः अवदत् यत् विभिन्नविभागैः सम्बद्धाः शासकीयाधिकारीणः अपि सङ्कुलैः सम्बद्धानां ग्रामाणां विकासे स्वस्वां भूमिकां पूर्णनिष्ठया निर्वहन्तु। स्थानीयावश्यकतानां सम्यगवबोधेन कौशलविकासं कृत्वा जनानां कृते स्थायिरोजगारस्य अवसराः दातुं शक्यन्ते।
उपवेशने रायगढस्य लैलूङ्गासङ्कुलस्य, सरगुजायाः परशुरामपुरसङ्कुलस्य, बस्तरस्य बकावण्डसङ्कुलस्य, बलरामपुरस्य माताराजमोहिनीदेवीसङ्कुलस्य तथा केशकालस्य धनोरासङ्कुलस्य अन्तर्गतं योजनया कृतानां कार्याणां विस्तृतविवरणं दत्तम्।
अस्मिन् अवसरे सांसदाः भोजराजनागः चिन्तामणिमहाराजः राधेश्यामराठियाः देवेंद्रप्रतापसिंहः, विधायकाः रेणुकासिंहाः गोमतीसायः प्रसादइन्डेपः कपिलसहस्रबुद्धिः च, विभिन्नविभागानां वरिष्ठाधिकारिणः तथा गणमान्यजनाश्च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार