Enter your Email Address to subscribe to our newsletters

रायपुरम्, 12 जनवरीमासः (हि.स.)।
मुख्यमन्त्री विष्णुदेवसायः अद्य स्वामीविवेकानन्दजयंतीदिने मुख्यमन्त्रिनिवासे स्वामीविवेकानन्दस्य छायाचित्रे पुष्पाणि अर्पयित्वा श्रद्धाञ्जलिं दत्तवान्, तथा ‘राष्ट्रीययुवादिवस’स्य अवसरॆ प्रदेशस्य युवभ्यः हार्दिकान् शुभाशयान् अपि प्रेषितवान्। सः अवदत् यत् स्वामीविवेकानन्दस्य जीवनं विचाराश्च अद्यापि भारतस्य युवशक्तये ऊर्जा, दिशा, आत्मविश्वासस्य च महत्तमः स्रोतः सन्ति।
मुख्यमन्त्री सायः अवदत् यत् स्वामीविवेकानन्दः युवान् एतद् विश्वासं दत्तवान् यत् ते स्वयमेव स्वभविष्यस्य निर्माता भवन्ति। तस्य विचारैः सेवा, आत्मबलं, राष्ट्रप्रेम च जीवनस्य उद्देशरूपेण स्वीकरणीयम् इति प्रेरणा प्राप्ता। अद्य यदा भारतः अमृतकालस्य दिशि अग्रसरः अस्ति, तदा विवेकानन्दस्य शिक्षाः युवान् उत्तरदायिनः, आत्मनिर्भरान्, राष्ट्रहिते सजगान् नागरिकान् भवितुं मार्गदर्शनं कुर्वन्ति।
सः अपि अवदत् यत् छत्तीसगढराज्यस्य कृते एतद् गौरवविषयः अस्ति यत् स्वामीविवेकानन्दस्य जीवनं रायपुरेण अपि सम्बद्धम् आसीत्। अत्र भूमौ तेन यः कालः व्यतीतः, सः प्रदेशस्य सांस्कृतिकचेतनायाः वैचारिकपरम्परायाः च विशिष्टां पहचानं ददाति।
मुख्यमन्त्री सायः विश्वासं व्यक्तं कृतवान् यत् स्वामीविवेकानन्दस्य विचाराः आगामिन्यः पीढ्यः अपि प्रेरयन्तः भविष्यन्ति, तथा छत्तीसगढसहिते सम्पूर्णे देशे युवानः तस्य आदर्शान् स्वीकृत्य समाजस्य राष्ट्रस्य मानवतायाः च सेवायाम् अग्रणीं भूमिकां निर्वक्ष्यन्ति।
---------------
हिन्दुस्थान समाचार