मुख्यमंत्री स्वामी विवेकानंद जयंत्यां राष्ट्रिय युवा दिवसे शुभकामनाः
जयपुरम्, 12 जनवरीमासः (हि.स.)।मुख्यमंत्री भजनलाल शर्मा स्वामी विवेकानन्दजयंती तथा राष्ट्रिययुवादिवसस्य (द्वादशजनवरी) उपलक्ष्ये प्रदेशवासिभ्यः शुभाशयान् प्रेषितवान्। स्वसन्देशे सः अवदत् यत् स्वामी विवेकानन्दः भारतीयसंस्कृतेः मूल्यानां च संरक्षणार्थ
मुख्यमंत्री ने स्वामी विवेकानंद जयंती व राष्ट्रीय युवा दिवस पर दी शुभकामनाएं


जयपुरम्, 12 जनवरीमासः (हि.स.)।मुख्यमंत्री भजनलाल शर्मा स्वामी विवेकानन्दजयंती तथा राष्ट्रिययुवादिवसस्य (द्वादशजनवरी) उपलक्ष्ये प्रदेशवासिभ्यः शुभाशयान् प्रेषितवान्।

स्वसन्देशे सः अवदत् यत् स्वामी विवेकानन्दः भारतीयसंस्कृतेः मूल्यानां च संरक्षणार्थं स्वसम्पूर्णं जीवनं समर्पितवान्।

सः युवानां प्रति आत्मविश्वासस्य चरित्रनिर्माणस्य राष्ट्रभक्तेः च महत्त्वं प्रतिपादयन् उक्तवान्

उत्तिष्ठत जाग्रत च लक्ष्यप्राप्तेः पूर्वं मा विरमत।

मुख्यमन्त्री अवदत् यत् स्वामी विवेकानन्दस्य आदर्शाः युवाशक्तये सदा प्रेरणास्रोतः भविष्यन्ति।

सः युवान् आह्वानं कृतवान् यत् ते स्वामिविवेकानन्दस्य सिद्धान्तान् स्वजीवने आत्मसात् कृत्वा सशक्तस्य समृद्धस्य आत्मनिर्भरस्य भारतस्य निर्माणे सक्रियां भूमिकां वहन्तु।

---------------

हिन्दुस्थान समाचार