Enter your Email Address to subscribe to our newsletters

आलोचनात्मक–चिन्तनम् जेएनयू–इत्यस्य आत्मा - धर्मेन्द्रप्रधानः
नवदिल्ली, १२ जनवरीमासः (हि.स.)उपराष्ट्रपति: सी.पी.राधाकृष्णन् सोमवासरे उक्तवान् यत् लर्क:, चर्चा, असहमति: च स्वस्थ–लोकतन्त्रस्य आवश्यक–तत्वानि, किन्तु एतेषाम् उद्देश्यम् निष्कर्षे निर्णयं प्राप्यते इति। स: दृढतया उक्तवान् यत् एकवारं निर्णयः कृतः चेत् सामूहिक–सहयोगेन तस्य प्रभावी तथा सुचारु क्रियान्वयनम् अनिवार्यम्।
उपराष्ट्रपति: अत्र जवाहरलाल–नेहरू–विश्वविद्यालये (जेएनयू) नवमस्य दीक्षांत–समारोहस्य संबोधनं कृतवान्। सब: उपाधि–प्राप्यमाणान् विद्यार्थिनः अभिनन्दयित्वा तान् स्वीयं ज्ञानं कौशलं च राष्ट्रसेवायै समर्पयितुम् आह्वानं कृतवान्।उपराष्ट्रपति: अवदत् यत् विश्वविद्यालयेषु विचारस्वातन्त्र्यम्, लर्क:, चर्चा, असहमति:, वैचारिक–मन्थनञ्च अत्यन्तं महत्वपूर्णम् अस्ति। किन्तु सुसंगत–प्रशासनस्य तथा राष्ट्रनिर्माणस्य कृते निर्णयः एवं सहयोग–भावना अपि तावदेवावश्यकी।स्वामी–विवेकानन्द–जयन्तीं स्मरन् उपराष्ट्रपति: अवदत् यत् शिक्षा केवलं प्रमाणपत्र–प्राप्त्यर्थं न भवेत्, अपितु तस्य उद्देश्यम् चरित्र–निर्माणम्, बौद्धिक–सशक्तीकरणम्, आत्मनिर्भरता च भवेत्। शिक्षया तथा उचित–प्रशिक्षणेन भारतस्य युवावर्गः प्रधानमन्त्री नरेन्द्र–मोदी–विकसित–भारत–२०४७ इत्यस्य संकल्पं साकारयितुम् अर्हति।उपराष्ट्रपति: अवदत् यत् भारतस्य प्राचीन–ज्ञानपरंपरा महती अस्ति। ते नालन्दा तथा तक्षशिला इत्यादीनि प्राचीन–शिक्षा–केंद्राणि स्मरन्ति। उपनिषदः, भगवद्गीता, कौटिल्य–अर्थशास्त्रम्, तिरुक्कुरल् च ग्रन्थाः शिक्षां सामाजिक–नैतिक–जीवनस्य केन्द्रम् इति मन्यते।ते जेएनयू–समावेशी–परिवेशम्, भारतीय–भाषाः, सभ्यतागत–अध्ययनम् च प्रशंसयति। उपराष्ट्रपति: अवदत् यत् राष्ट्रीय–शिक्षा–नीते: अनुकूलम्, मातृभाषायाम् ज्ञानसृजनम् प्रोत्साह्यते।विद्यार्थिनः त्रीणि मूल–कर्तव्याणि पालनं कुर्वन्तु—सत्यस्य अन्वेषणे बौद्धिक–सत्यता,सामाजिक–समावेशनम् असमानतानां न्यूनीकरणार्थम्,राष्ट्र–निर्माणे सक्रिय–योगदानम्।सब: उक्तवान् यत् संवैधानिक–मूल्यानि, भारतस्य सभ्यतागत–परम्पराः, पितरौ तथा शिक्षकान् प्रति सततसम्मानम् अपेक्षितम्।उपरोक्तावसरे केन्द्रीय–शिक्षा–मन्त्री धर्मेन्द्र–प्रधानः उक्तवान् यत् आलोचनात्मक–चिन्तनम् जेएनयू–इत्यस्य आत्मा। स: अवदत् यत् जेएनयू–मध्ये लर्क:, चर्चा, सांस्कृतिक–अभिव्यक्ति:, बौद्धिक–संवादः जीवन्त–परम्परा अस्ति। जेएनयू–बौद्धिक–केंद्रम्, यत्र विचाराः परीक्षिताः, विकसिताः च भवन्ति, ये राष्ट्र–नीतिनिर्माणे योगदानं कुर्वन्ति।प्रधान: अवदत् यत् जेएनयू–शैक्षणिक–परिवेशः नेतृत्व–विकासस्य सशक्तं केन्द्रम्। स: डॉ.डी.पी.त्रिपाठी, सीताराम–यचुरी, प्रकाश–करात:, निर्मला–सीतारमण:, डॉ.एस. जयशंकर:, डॉ.जॉन–ब्रिटास: इत्यादीनां पूर्व–विद्यार्थिनां योगदानं स्मरन्प्रधान: अवदत् यत् जेएनयू–दीर्घकालीन–शैक्षणिक–योगदान–माध्यमेन शैक्षणिक–उत्कृष्टताया: विशिष्ट–परम्परा स्थापिता। जेएनयू–सर्वदा बहुविषयक–पर्यावरणे शैक्षणिक–स्वायत्तता आत्मसात् कृतवान्। बहुविषयक–शोधः जेएनयू–मूल–स्वभावस्य अंशः।प्रधान: अवदत् यत् जेएनयू–उपाधिः केवलं व्यक्तिगत–उपलब्धिः न, किन्तु समाजं प्रति कर्त्तयम्। स: विश्वासम् अभिव्यक्तं यत् जेएनयू–समावेशिता, सामाजिक–न्याय:, उत्तरदायित्व–परम्परा च विद्यार्थिनां माध्यमेन विकसित–भारत–लक्ष्यं साधयिष्यति।दीक्षांत–समारोहस्य उपाधि–प्राप्त–विद्यार्थिनः आह्वानं प्राप्य प्रधान: अवदत् यत् ते जेएनयू–समावेशिता, सामाजिक–न्याय:, उत्तरदायित्वं च सुदृढयन्तु, वंचितानां स्वरं भूत्वा असमानतायाः न्यूनीकरणं कुर्युः। केचन विद्यार्थिन: संसदे, विधानसभायाम् लोकतन्त्रं सुदृढं करिष्यन्ति, केचन कर्तव्य–भवनं राष्ट्र–सेवायै अर्पयिष्यन्ति, केचन रणनीतिक–विशेषज्ञाः, राजनैतिकाः भूत्वा भारतस्य वैश्विक–भूमिकां सशक्तं करिष्यन्ति, केचन नवाचार–उद्यमितया नवानि उद्यमानि स्थापयिष्यन्ति। केचन लेखका:, पत्रकारा:, विचारशील–नेतृत्वकर्तार: भूत्वा राष्ट्र–वैचारिक–विमर्शं निर्देशयिष्यन्ति।अस्मिन् अवसरे जेएनयू–कुलाधिपति: कंवल–सिब्बल:, कुलपति: प्रो.शांतिश्री–धुलिपुडी–पण्डित:, वरिष्ठ–अधिकारी, संकाय–सदस्याः, उपाधि–प्राप्त–विद्यार्थिनः, तेषां पारिजनाः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता