जर्मन्याः चांसलर फ्रेडरिक मर्ज भारतं प्राप्नोत्, अहमदाबादे जातं स्वागतम्
नवदिल्ली, 12 जनवरीमासः (हि.स.)। जर्मनीदेशस्य चांसलरः फ्रेडरिक् मर्ज् अद्य द्विदिवसीयायाः आधिकारिकयात्रायाः निमित्तं भारतदेशं प्राप्तवान्। पदभारग्रहणानन्तरं भारतदेशे तस्य प्रथमः आधिकारिकं भ्रमणम् एतत्। अहमदाबादविमानतले गुजरातराज्यस्य राज्यपालः आचा
जर्मनी के चांसलर फ्रेडरिक मर्ज


नवदिल्ली, 12 जनवरीमासः (हि.स.)।

जर्मनीदेशस्य चांसलरः फ्रेडरिक् मर्ज् अद्य द्विदिवसीयायाः आधिकारिकयात्रायाः निमित्तं भारतदेशं प्राप्तवान्। पदभारग्रहणानन्तरं भारतदेशे तस्य प्रथमः आधिकारिकं भ्रमणम् एतत्। अहमदाबादविमानतले गुजरातराज्यस्य राज्यपालः आचार्यदेवव्रतः तस्य सस्नेहं स्वागतं कृतवान्।

विदेशकार्य मंत्रालयस्य प्रवक्ता रणधीर् जायसवालः सामाजिकमाध्यमे एक्स् इत्यत्र सूचनां दत्त्वा अवदत् यत् चांसलरः फ्रेडरिक् मर्ज् आधिकारिकयात्रायां अहमदाबादं प्राप्तवान्। तेन अवगतं कृतं यत् भारतजर्मनीदेशयोः राजनयिकसम्बन्धानां पञ्चसप्ततिवर्षाणि तथा भारतजर्मनीरणनीतिकसहकारितापञ्चविंशतिवर्षाणि पूर्णानि भवन्ति।

उल्लेखनीयम् यत् एतद्भ्रमणं प्रधानमन्त्री नरेन्द्रमोदीमहोदयस्य आमन्त्रणेन भवति। यात्राकाले चांसलरः मर्ज् प्रधानमन्त्री नरेन्द्रमोदीमहोदयेन सह भेटं करिष्यति इति प्रस्तावितम् अस्ति, यस्यां द्विपक्षीयसहयोगस्य विविधाः विषयाः चर्चायाः अपेक्षिताः सन्ति। प्रधानमन्त्री नरेन्द्रमोदीमहोदयेन सह प्रस्ताविता भेटिः भारतजर्मनीदेशयोः सहकारितांअधिकां दृढां करिष्यति इति आशा व्यक्ता क्रियते।

---------------

हिन्दुस्थान समाचार