Enter your Email Address to subscribe to our newsletters


अहमदाबादनगरम्, १२ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदी सोमवासरे अहमदाबादनगरे साबरमती–रिवरफ्रण्ट-इत्यत्र अन्ताराष्ट्रिय–पतङ्ग–महोत्सवस्य २०२६ उद्घाटनं कृतवान्। अस्मिन् अवसरे तेन सह जर्मनीदेशस्य चांसलरः फ्रेडरिक–मर्ज: अपि उपस्थितः आसीत्। उभौ नेतारौ पतङ्गोड्डयनेन पतङ्गोड्डयनस्य आनन्दं लब्धवन्तौ।प्रधानमन्त्री मोदी जर्मनी–चांसलरः मर्ज: च अन्ताराष्ट्रिय–पतङ्ग–महोत्सवे आगते सति भव्येन स्वागतं कृतम्। राज्यस्य विभिन्न–प्रदेशेभ्यः आगताः कलाकाराः पारम्परिक–नृत्यैः लोकसङ्गीतैः च चांसलरस्य स्वागतम् अकुर्वन्, तेन च एषः अवसरः स्मरणीयः अभवत्।उद्घाटनानन्तरम् उभौ नेतारौ उद्घटितयाने यात्रां कृतवन्तौ, विशेषरूपेण विनिर्मिताः पतङ्गाः च उड्डयितवन्तौ। महोत्सवकाले प्रधानमन्त्री मोदी चांसलरः मर्ज: च भगवत: हनुमतः आकृतियुक्तं पतङ्गम् उड्डयितवन्तौ इति अपि दृष्टम्।अस्मिन् कार्यक्रमे मुख्यमन्त्री भूपेन्द्र–पटेलः तथा उपमुख्यमन्त्री हर्ष–सङ्घवी अपि उपस्थिताः आसन्। अस्य वर्षस्य महोत्सवे५० देशेभ्यः १३५ विदेशीयाः पतङ्गोड्डयितार:,भारतस्य १३ राज्येभ्यः ६५ प्रतिभागिनः,तथा गुजरातस्य १६ जनपदेभ्यः ८७१ पतङ्गोड्डयितार:भागं गृह्णन्ति।प्रधानमन्त्री मोदी जर्मनी–चांसलरः च पतङ्ग–संग्रहालयं (Kite Museum) तथा हेरिटेज–वॉक इत्येतयोः दर्शनं कृत्वा विभिन्न–प्रकाराणां पतङ्गानां विषये परिचयं प्राप्तवन्तौ। सांस्कृतिक–कार्यक्रमेषु पारम्परिक–नृत्य–सङ्गीत–प्रस्तुतयः अपि प्रदत्ताः।महोत्सवकाले न्यू–जीलैण्ड–देशस्य एका महिला–पतङ्गोड्डयिता अस्वस्थतां प्राप्तवती। ताम् उपचारार्थं सी.वी.पी. चिकित्सालये प्रवेशितवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता