Enter your Email Address to subscribe to our newsletters


भाेपालम्, 12 जनवरीमासः (हि.स.)। यूनां प्रेरणास्रोतः स्वामीविवेकानन्दः अद्य सोमवासरे जयंतीं प्राप्नोति। प्रतिवर्षं तस्य जयंती-अवसरे द्वादशे जनवरीमासे राष्ट्रिययुवादिवसः आचर्यते। एतेन सह अस्मिन् विशेषदिने प्रतिवर्षं सामूहिकसूर्यनमस्कारस्य आयोजनं भवति। मध्यप्रदेशस्य मुख्यमंत्री डॉ. मोहन यादवः स्वामीविवेकानन्दजयंती-अवसरे तं विनम्रतया नत्वा राष्ट्रीययुवादिवसस्य शुभाशयान् व्यक्तवान्।
मुख्यमंत्री डॉ. यादवः सामाजिकमाध्यमे एक्स् इत्यत्र सन्देशं प्रेष्य अवदत्— युवानां प्रेरणापुञ्जाय स्वामीविवेकानन्दाय जयंतीदिने कोटिकोटि नमनं, तथा राष्ट्रीययुवादिवसस्य हार्दिकाः अभिनन्दनाः शुभाशयाश्च। सः आध्यात्मिकया ऊर्जया दर्शनचिन्तनेन च विश्वकल्याणस्य मार्गं दर्शितवान्। अनन्ताया आन्तरिकशक्तेः बोधं कारयन् युवान् राष्ट्रनिर्माणे योगदानाय प्रेरितवान्। तस्य चरणयोः कोटिकोटि प्रणामं करोमि।
अपरं च, भारतीयजनतापक्षस्य प्रदेशाध्यक्षः हेमन्त खण्डेलवालः अपि स्वामीविवेकानन्दजयंती-अवसरे तं स्मृत्वा विनम्रनमनं कृतवान्। सः स्वसन्देशे अवदत्— सम्पूर्णे विश्वे भारतीयसंस्कृतेः, योगस्य, वेदान्तस्य च गौरवमयं पताकां लालयितुं समर्थः महान् दार्शनिकः, योगी, विचारकश्च स्वामीविवेकानन्दः— तस्य जयंतीदिने कोटिशः नमनम्। आगच्छामः वयं सर्वे अस्मिन् राष्ट्रिययुवादिवसे स्वामीविवेकानन्दस्य उच्चान् आदर्शान् शिक्षाश्च स्वजीवने अवतारयामः, तथा राष्ट्रनिर्माणे सक्रियतया योगदानं दातुं संकल्पं कुर्मः।
---------------
हिन्दुस्थान समाचार