मध्यप्रदेशेऽद्य युवदिवसे शुभारप्स्यते संकल्पेन समाधानमिति अभियानम्
- चतुष्षु चरणेषु 31 मार्च यावच्चलिष्यति अभियानम्, उत्कृष्ट कार्यकर्तृभ्यः प्राप्स्यते पुरस्कारः भोपालम्, 12 जनवरीमासः (हि.स.)।विकसितमध्यप्रदेशलक्ष्यस्य प्राप्तये केन्द्रराज्यसर्वकारयोः योजनानां सेवाणां च लाभं पात्रेभ्यः जनैः प्रापयितुं प्रदेशे द्
संकल्प से समाधान अभियान (सरकार द्वारा जारी तस्वीर)


- चतुष्षु चरणेषु 31 मार्च यावच्चलिष्यति अभियानम्, उत्कृष्ट कार्यकर्तृभ्यः प्राप्स्यते पुरस्कारः

भोपालम्, 12 जनवरीमासः (हि.स.)।विकसितमध्यप्रदेशलक्ष्यस्य प्राप्तये केन्द्रराज्यसर्वकारयोः योजनानां सेवाणां च लाभं पात्रेभ्यः जनैः प्रापयितुं प्रदेशे द्वादशजनवरीतः एकत्रिंशत् मार्च २०२६ पर्यन्तं “संकल्पतः समाधानम्” इति अभियानं प्रवर्तते। अद्य सोमवासरे स्वामीविवेकानन्दजयंतीनिमित्तं “युवादिवसे” आरभ्यमाणः एषः अभियानः ग्रामपञ्चायतस्तरे, नगरीयनिकायस्तरे तथा जिलास्तरे पात्रहितग्राहिणां लाभार्थं चतुर्षु चरणेषु सञ्चालितः भविष्यति।

जनसम्पर्काधिकारी महिपाल् अजयः सूचनां दत्त्वा अवदत् यत् अस्मिन् अभियाने ग्रामपञ्चायतासु नगरीयनिकायेषु च वार्डस्तरीयसमितयः तथा आवेदनशिकायतासङ्ग्रहाय दलाः गठिताः भविष्यन्ति, येषां कृते एकः नोडलधिकारी नियुक्तः भविष्यति। सम्पूर्णा कार्यवाही सी.एम्. हेल्पलाइन् पोर्टल् माध्यमेनैव सम्पादिता भविष्यति। पोर्टले प्रथमः माड्यूलः निर्माय अधिकारीणां नागरिकानां च कृते लॉगिन् सृजनस्य सुविधा प्रदास्यते।

प्रथमः चरणः

अभियानस्य प्रथमः चरणः द्वादशजनवरीतः पञ्चदशफेब्रुवरी २०२६ पर्यन्तं प्रवर्तिष्यते। अस्मिन् चरणे आवेदनस्वीकारकार्यवाही क्रियते। प्रत्येकग्रामपञ्चायते नगरीयनिकाये च वार्डस्तरीयसमितिः गठनीया, यस्यां ग्रामनगरीयस्तरस्य अधिकारिणः कर्मचारिणश्च सम्मिलिताः भविष्यन्ति। आवेदनशिकायतासङ्ग्रहाय दलः गठितः भविष्यति, यस्य एकः नोडलधिकारी भविष्यति। एषः दलः शासनस्य विविधयोजनासेवासम्बद्धानि आवेदनानि परिवादान् च शिविरैः गृहगृहं गत्वा वा सङ्ग्रहीष्यति। नोडलधिकारिणां दायित्वं भविष्यति यत् सः सर्वाणि आवेदनानि स्वीयलॉगिन् द्वारा पटले पञ्जीकुर्यात्।

पटले पञ्जीकरणानन्तरं सर्वाणि आवेदनानि क्लस्टर् अथवा जोनस्तरीयाधिकाऱिणां समीपे प्रेषितानि भविष्यन्ति। ते अधिकारिणः विभागानुसारं सम्बद्धाधिकाऱिणां प्रति आवेदनानि निराकरणार्थं प्रेषयिष्यन्ति तथा निराकरणस्थितिं प्राप्स्यन्ति। प्रारम्भिकचरणे प्राप्तानां आवेदनानां समीक्षाः जिल्लानुसारं कलेक्टर कमिश्नर इत्येभिः च समये समये विडियोसम्मेलनैः करिष्यन्ते।

द्वितीयं चरणम्

अभियानस्य द्वितीयं चरणं षोडशफेब्रुवरी २०२६ तः षोडशमार्च २०२६ पर्यन्तं प्रवर्तिष्यते। अस्मिन् चरणे ग्रामीणक्षेत्रेषु क्लस्टरस्तरे नगरीयक्षेत्रेषु च नगरजोनस्तरे नोडलधिकारीरूपेण तहसीलदारः, नायबतहसीलदारः, जनपदपञ्चायतमुख्यकार्यपालनाधिकारी, मुख्यनगरपालिकाधिकारी, विकासखण्डशिक्षाधिकारी, जोनलधिकारी अथवा समकक्षाधिकारी भविष्यन्ति। द्वितीयचरणे प्रथमचरणे प्राप्तानां शेषाणां च आवेदनानां निराकरणार्थं शिविराणि आयोजितानि भविष्यन्ति।

जिल् स्थितानां पञ्चायतीनां संख्यानुसारम् अधिकारिभिः आवश्यकतानुसारं पञ्चदशतः त्रिंशत् ग्रामपञ्चायतीनां समूहाः क्लस्टररूपेण निर्धारिताः भविष्यन्ति। नगरीयक्षेत्रेषु लघुनगरपालिकानगरपञ्चायतस्तरे एकं शिविरं, नगरनिगमस्तरे वार्डसंख्यानुपातेन क्लस्टर् अथवा संभागो निर्मीयते। शिविरकालनिर्धारणं जिल्लास्तरे क्रियते। प्राप्तानां आवेदनशिकायतानां निराकरणं क्लस्टर् संभागस्तरीयशिविरेषु विभागीयधिकाऱिभिः क्रियते तथा निराकरणविवरणं नोडलधिकारिणां द्वारा पटले लेख्यते।

तृतीयं चरणम्

अभियानस्य तृतीयं चरणं षोडशमार्च २०२६ तः षड्विंशतिमार्च २०२६ पर्यन्तं प्रवर्तिष्यते। अस्मिन् चरणे विकासखण्डस्तरे नोडलधिकारीरूपेण अनुविभागीयाधिकारी राजस्व, तहसीलदारः, जनपदपञ्चायतमुख्यकार्यपालनाधिकारी, अपरआयुक्तनगरनिगमः, मुख्यनगरपालिकाधिकारी च भविष्यन्ति। अत्र ब्लॉक् नगरस्तरे शिविराणि आयोज्यन्ते, येषु क्लस्टर् जोनस्तरे अनिराकृताः तथा नवीनप्राप्ताः आवेदनशिकायताः निराक्रियन्ते।

चतुर्थः चरणः

अभियानस्य चतुर्थः चरणः षड्विंशतिमार्चतः एकत्रिंशत् मार्च २०२६ पर्यन्तं प्रवर्तिष्यते। अस्मिन् चरणे जिलास्तरे शिविराणि आयोज्यन्ते, येषु सर्वेषां शेषाणां अनिराकृतानां नवीनानां च आवेदनानां निराकरणं क्रियते। अत्र अध्यक्षता जिलप्रभारीमन्त्रीणा क्रियते तथा लाभार्थिभ्यः सम्मानपूर्वकं हितलाभवितरणं भविष्यति।

अभियानस्य सर्वेषु चरणेषु कलेक्टरः, जिलापञ्चायतमुख्यकार्यपालनाधिकारी, नगरनिगमायुक्तः, अपरकलेक्टरः, विभागीयजिलाधिकारीणश्च उपस्थिताः भविष्यन्ति। प्रत्येकविकासखण्डे न्यूनातिन्यूनं त्रयः शिविराः, नगरपरिषदि एकः, नगरपालिकासु द्वितीयतः पञ्चपर्यन्तं, नगरनिगमेषु पञ्चतः दशपर्यन्तं शिविराणि आयोजनीयानि सन्ति।

जिलाकलेक्टराः प्रयतिष्यन्ते यत् प्रतिदिनं एकमेव क्लस्टरशिविरं आयोजितं स्यात्, येन वरिष्ठाधिकाऱिणां उपस्थिति सुनिश्चितं भवेत्। आवश्यकता अनुसारं शिविरसंख्या वर्धयितुं कलेक्टराणां स्वविवेकाधिकारः अस्ति। शिविराणां रोस्टरनिर्धारणं प्रभारीमन्त्रिणा सह परामर्शेण क्रियते।

अभियानसम्बद्धा सर्वा कार्यवाही पोर्टल् माध्यमेनैव भविष्यति। नागरिकाः अपि पोर्टले स्वीयानि आवेदनानि पञ्जीकर्तुं शक्नुवन्ति तथा शिविरपूर्वं स्वानुकूल्येन शिविरचयनं कृत्वा पञ्जीकरणं करिष्यन्ति। क्लस्टरस्तरे निराकरणयोग्यानां आवेदनानां हितलाभवितरणं तत्स्तरीयशिविरेषु एव भविष्यति। सर्वेषां जिलानां कृते एकत्रिंशत् मार्च २०२६ पर्यन्तं समस्तानां आवेदनानां अनिवार्यतया अन्तिमनिराकरणं कृत्वा पात्रहितग्राहिणः लाभान्विताः करिष्यन्ते।

जिलप्रभारीमन्त्रिणः अभियानस्य नियमितसमीक्षां करिष्यन्ति। संभागस्तरे संभागायुक्ताः, जिलास्तरे कलेक्टराः, अनुविभागस्तरे अनुविभागीयाधिकारीणः च अभियानस्य संचालनस्य नियमितसमीक्षां पर्यवेक्षणं च करिष्यन्ति। जिल्लाधिकारी स्थानीयपरिस्थितीनुसारं जनहिते नूतनान् नवाचारान् आरभ्य अभियानलक्ष्यप्राप्तौ नागरिकानां सर्वपात्रयोजनालाभप्राप्तिं सुनिश्चितं करिष्यन्ति।

हिन्दुस्थान समाचार