Enter your Email Address to subscribe to our newsletters

- विवेकानंद जयंत्यां प्रदेशस्य समस्त शालासु भविष्यति सामूहिक सूर्य नमस्कारः
भोपाल, 12 जनवरीमासः (हि.स.)।
स्वामीविवेकानन्दजयंतीनिमित्तं राष्ट्रिययुवादिवसे अद्य सोमवासरे प्रतिवर्षवत् अस्मिन्नपि वर्षे प्रदेशस्य सर्वेषु विद्यालयेषु सामूहिकसूर्यनमस्कारकार्यक्रमः आयोजितः भविष्यति। मुख्यमंत्री डॉ. मोहन यादवः भोपालनगरे सुभाष उत्कृष्ट विद्यालये आयोजिते राज्यस्तरीयकार्यक्रमे सहभागी भविष्यति, तथा विद्यालयशिक्षामन्त्री उदयप्रतापसिंहः नरसिंहपुरस्य राजमार्गे स्थिते रुक्मिणीदेवी पब्लिक विद्यालये विद्यार्थिभिः सह सूर्यनमस्कारं योगाभ्यासं च करिष्यति।
जनसम्पर्काधिकारी सुनील वर्मा अवदत् यत् युवादिवसस्य अवसरॆ प्रदेशस्य सर्वासु शिक्षणसंस्थासु प्रातः नववादनं त्रिंशत् निमेषात् दशवादनं पञ्चदश निमेषपर्यन्तं आकाशवाण्या प्रसारिते कार्यक्रमे राष्ट्रगीतं वन्देमातरम्, स्वामीविवेकानन्दस्य अभिलेखितश्रव्यसन्देशः तथा मुख्यमंत्री डॉ. यादवस्य सन्देशः प्रसारितः भविष्यति। ततः रेडियोप्रसारणे दत्तसंकेतानुसारं सामूहिकसूर्यनमस्कारः प्राणायामश्च आचर्यते। एषः कार्यक्रमः प्रदेशस्य सर्वेषु आकाशवाणीकेन्द्रेषु एककालेन प्रसारितः भविष्यति।
तेन अपि अवगतं कृतं यत् विद्यालयशिक्षाविभागेन निर्गतानां निर्देशानां अनुसारं सामूहिकसूर्यनमस्कारस्य आयोजनं सर्वासु शिक्षणसंस्थासु एकस्मिन्नेव समये एकेनैव संकेतः सह कर्तव्यं भविष्यति। जिलोपस्तरे आयोजितेषु सामूहिकसूर्यनमस्कारकार्यक्रमेषु स्थानीयाः जनप्रतिनिधयः, विविधाः शिक्षणसंस्थाः, समितयः तथा गणमान्यनागरिकाः अपि सहभागी भविष्यन्ति। अस्मिन् आयोजने षष्ठ्याः कक्ष्यातः द्वादश्याः कक्ष्यापर्यन्तं छात्राः छात्र्यश्च स्वेच्छया सहभागं करिष्यन्ति। प्राथमिकविद्यालयस्य बालकाः सूर्यनमस्काराभ्यासे न सहभागीभविष्यन्ति, किन्तु ते दर्शकरूपेण उपस्थिताः भवितुं शक्नुवन्ति।
---------------
हिन्दुस्थान समाचार