पीएसएलवी-सी62 इत्यस्य सफल प्रक्षेपणे ओडिशायाः मुख्यमंत्रिणा इसरोनिमित्तानि वर्धापनानि दत्तानि
भुवनेश्वरम्, 12 जनवरीमासः (हि.स.)।ओडिशाप्रदेशस्य मुख्यमन्त्री मोहनचरणमाझी ईओएस एन १ तथा पञ्चदश सहयात्री उपग्रहान् वहन्तः पीएसएलवी सी ६२ इति राकेटस्य सफलप्रक्षेपणे भारतीयान्तरिक्षअनुसन्धानसंस्थां प्रति हार्दिकान् अभिनन्दनशब्दान् प्रेषितवान्। मुख्यम
पीएसएलवी-सी62 इत्यस्य सफल प्रक्षेपणे ओडिशायाः मुख्यमंत्रिणा इसरोनिमित्तानि वर्धापनानि दत्तानि


भुवनेश्वरम्, 12 जनवरीमासः (हि.स.)।ओडिशाप्रदेशस्य मुख्यमन्त्री मोहनचरणमाझी ईओएस एन १ तथा पञ्चदश सहयात्री उपग्रहान् वहन्तः पीएसएलवी सी ६२ इति राकेटस्य सफलप्रक्षेपणे भारतीयान्तरिक्षअनुसन्धानसंस्थां प्रति हार्दिकान् अभिनन्दनशब्दान् प्रेषितवान्।

मुख्यमन्त्री सामाजिकमाध्यममञ्चे ‘एक्स’ इत्यस्मिन् लेखं कृत्वा अस्य उपलब्धेः प्रशंसां कृतवान्, एतां च भारतस्य अन्तरिक्षप्रौद्योगिक्यां वर्धमानशक्तेः प्रतीकरूपेण निरूपितवान्। सः इसरो संस्थायाः सम्पूर्णायाः दयाय भविष्येषु अभियानेषु शुभाशयान् अपि अर्पितवान्।

स्वीयलेखे मुख्यमन्त्री उक्तवान्

ईओएस एन १ तथा पञ्चदश सहयात्री उपग्रहान् वहन्तः पीएसएलवी सी ६२ इत्यस्य सफलप्रक्षेपणस्य अवसरॆ इसरो संस्थायै हार्दिकं अभिनन्दनम्। एषा उल्लेखनीया उपलब्धिः अन्तरिक्षप्रौद्योगिक्यां भारतस्य सामर्थ्यं दर्शयति। सम्पूर्णायाः दलाय भविष्येषु अभियानेषु शुभाशयाः।

---------------

हिन्दुस्थान समाचार