Enter your Email Address to subscribe to our newsletters


अहमदाबादनगरम्, १२ जनवरीमासः (हि.स.)।
प्रधानमन्त्री श्रीनरेन्द्र–मोदी सोमवासरे जर्मनी–चांसलरः फ्रेडरिक्–मर्जेण सह अहमदाबाद–नगरे आयोजिते इण्डिया–जर्मनी–सीईओ–फोरमध्ये भागं गृहीतवान्। अस्मिन् अवसरे उभयो: देशयोः प्रमुख–उद्योगपतयः व्यावसायिक–नेतारश्च उपस्थिताः आसन्। तैः व्यापारः, निवेशः, तान्त्रिक–सहयोगश्च इत्यादिविषयान् अधिकं सुदृढीकरणं कर्तुं विचार–विमर्शः कृतः।
प्रधानमन्त्री मोदी च चांसलरः मर्जः भारत–जर्मनी–आर्थिक–सहभागितां नूतन–उन्नतिं नेतुं दृढ–प्रतिबद्धतां व्यक्तवन्तौ।
सहैव प्रधानमन्त्री मोदी च चांसलरः मर्जः साबरमती–आश्रमं गत्वा दर्शनं कृतवन्तौ, यतः महात्मा–गान्धिना ऐतिहासिकः दाण्डी–संचलनम् आरब्धम् आसीत्। उभौ नेतारौ बापू–महोदयाय पुष्पाञ्जलिं समर्प्य तस्य आदर्शान् नतवन्तौ। चांसलरः मर्जः चरखां चालयित्वा गान्धीमहौदय: परम्परायाः अनुभवमपि कृतवान्।
एतस्मात् पूर्वम् अहमदाबाद–नगरे आयोजितायां द्विपक्षीय–सभायाम् उभौ नेतारौ रणनीतिक–सहभागितायाः विविध–पक्षेषु चर्चां कृतवन्तौ। अस्यां सभायां व्यापारः, निवेशः, रक्षा, महत्त्वपूर्ण–तान्त्रिक–क्षेत्राणि च इत्यादिषु विषयेषु सहयोगस्य अधिक–सुदृढीकरणाय विशेष–आग्रहः कृतः।
हिन्दुस्थान समाचार / Dheeraj Maithani