Enter your Email Address to subscribe to our newsletters



अहमदाबादम्, 12 जनवरीमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे द्विदिवसीयभारतयात्रायां आगतं जर्मनीदेशस्य चान्सलरं फ्रेडरिकमर्जं साबरमतीआश्रमस्य परिसरे स्वागतं कृतवान्। उभौ नेतारौ राष्ट्रपितरं महात्मागान्धिनं श्रद्धाञ्जलिम् अर्पितवन्तौ तथा गान्धिजीवनं तस्य आदर्शांश्च नतशीर्षं प्रणम्य स्मृतवन्तौ।
ततः अनन्तरं प्रधानमन्त्री नरेन्द्रमोदी जर्मनीदेशस्य चान्सलरः फ्रेडरिकमर्ज च साबरमतीनदीतटविहारस्थलं प्राप्तवन्तौ यत्र अन्ताराष्ट्रियपतङ्गमहोत्सवः २०२६ सम्पन्नः। अस्मिन् अवसरः उभौ नेतारौ परम्परागतरीत्या पतङ्गं उत्थाप्य महोत्सवस्य आनन्दं अनुभूतवन्तौ।
महोत्सवकाले प्रधानमन्त्री नरेन्द्रमोदी चान्सलरमर्जश्च भगवान् हनुमतः आकृतियुक्तां तथा ‘ऑपरेशन सिन्दूर’ इति लिखितां पतङ्गं उत्थापितवन्तौ। उल्लेखनीयं यत् जर्मनीदेशस्य चान्सलरस्य फ्रेडरिकमर्जस्य अयं दौरा भारतजर्मनीदेशयोः व्यापारनिवेशरक्षामहत्त्वपूर्णप्रौद्योगिकीक्षेत्रेषु सहयोगं अधिकं सुदृढं कर्तुं उद्दिश्य क्रियते।
भ्रमणकाले उभयोः देशयोः मध्ये द्विपक्षीयवार्तायाः अपि प्रस्तावः अस्ति यस्यां सामरिकसहकारिसम्बद्धानां विविधानां विषयाणां विषये चर्चायाः अपेक्षा विद्यते।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani