स्वामिनो विवेकानंदस्य जयंत्यां प्रधानमंत्री अददात् श्रद्धांजलिम्
नवदिल्ली, 12 जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे स्वामिविवेकानन्दस्य जयन्त्यवसरे तस्मै श्रद्धाञ्जलिं अर्पितवान्। सः अवदत् यत् स्वामिविवेकानन्दस्य व्यक्तित्वं कृतित्वं च विकसितभारतस्य संकल्पाय निरन्तरं नूतनां ऊर्जां प्रददाति। प्
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)।


नवदिल्ली, 12 जनवरीमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे स्वामिविवेकानन्दस्य जयन्त्यवसरे तस्मै श्रद्धाञ्जलिं अर्पितवान्। सः अवदत् यत् स्वामिविवेकानन्दस्य व्यक्तित्वं कृतित्वं च विकसितभारतस्य संकल्पाय निरन्तरं नूतनां ऊर्जां प्रददाति।

प्रधानमन्त्री राष्ट्रिययुवादिवसस्य अवसरें देशवासिनां विशेषतः युवजनानां कृते नूतनशक्तेः आत्मविश्वासस्य च कामनां कृतवान्। सः अवदत् यत् एषः दिव्यः अवसरः युवशक्तेः संकल्पं अधिकं सशक्तं करिष्यति।

प्रधानमन्त्री नरेन्द्रमोदी ‘एक्स्’ माध्यमे स्वामिविवेकानन्दं भारतीययुवशक्तेः सशक्तं प्रेरणास्रोतं वर्णयित्वा अवदत् यत् तस्य विचाराः कर्माणि च राष्ट्रनिर्माणस्य दिशायां मार्गदर्शकानि सन्ति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani