Enter your Email Address to subscribe to our newsletters

सिलीगुड़ीनगरम्, १२ जनवरीमासः (हि.स)।सिलीगुड़ी–नगर–निगमस्य ७५–तम: स्थापना–दिवसः तथा स्वामी–विवेकानन्दस्य १६४–तम: जयन्ती–अवसरे सोमवासरे सिलीगुड़ी–नगरे भव्य–शोभायात्रायाः आयोजनमभवत्। प्रातःकाले एव सम्पूर्ण–नगरे उत्सववातावरणं दृष्टम्।शोभायात्रायाः आरम्भः बाघाजतीन–उद्यानात् अभवत्, या हिलकार्ट–मार्गेण विवेकानन्दवीथी, अर्थात् झंकार–वीथी पर्यन्तं गता। अस्यां शोभायात्रायां सिलीगुड़ी–नगर–निगम–मेयर श्रीगौतम–देव:, सिलीगुड़ी–आरक्षी–कमीश्नरः सी.सुधाकरः, रामकृष्ण–मिशनस्य संता: अन्ये वरिष्ठाः अधिकारिण: च उपस्थिताः।एतान् अतिरिच्य विविध–सामाजिक–सांस्कृतिक–संघटनानां सदस्याः च बहवः सामान्य–नागरिकाः अपि शोभायात्रायाम् भागं गृहीतवन्त:। प्रतिभागिनः स्वामी–विवेकानन्दस्य छायाचित्राणि, फलकानि, स्फोरकपत्राणि च हस्ते वहन्त: सम्पूर्ण–नगरम् उत्सव–वातावरणेन व्यापितवन्तः।शोभायात्रायाः समापन–काले विवेकानन्द–वीयां स्थापितायां स्वामी–विवेकानन्द–प्रतिमायां माल्यार्पणं श्रद्धांजलि च अर्पिता। अस्मिन् अवसरे लघु–संवादे मेयरः गौतम–देव: उक्तवान् – स्वामी–विवेकानन्दस्य आदर्शाः दर्शनञ्च अद्यापि युवसमाजं प्रेरयन्ति तथा सम्यक्–दिशं प्रदर्शयन्ति। तेन एव उक्तम् – सिलीगुड़ी–नगरस्य ७५–वार्षिकी गौरवयात्रा नगरस्य समग्र–विकासस्य प्रगतिनां साक्षी अस्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani