Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 12 जनवरीमासः (हि.स.)।
केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः स्वामीविवेकानन्दजयंतीदिने तं नमनं कृतवान्, तथा राष्ट्रिययुवादिवसस्य शुभाशयान् अपि प्रेषितवान्।
श्रीप्रधानः सामाजिकमाध्यमेषु लिखितवान् यत् भारतीयचेतनां वैश्विकमञ्चे प्रतिष्ठां दत्तवतः, आत्मविश्वासस्य राष्ट्रबोधस्य च अमरघोषकस्य स्वामीविवेकानन्दस्य जयंतीदिने तस्मै श्रद्धापूर्वकं नमनं करोमि, देशवासिभ्यः च राष्ट्रिययुवादिवसस्य हार्दिकाः शुभाशयाः।
स्वामीविवेकानन्दः स्वस्य ओजस्विभिः विचारैः, निर्भीकचिन्तनेन, अद्भुतव्यक्तित्वेन च भारतस्य आध्यात्मिकपरम्परां विश्वस्य पुरतः नूतनदृष्ट्या प्रस्तुतवान्।
शिकागो नगरस्य ऐतिहासिकमञ्चात् दत्तः तस्य सन्देशः मानवतायाः सौहार्दस्य सार्वभौमिकभ्रातृत्वस्य च महान् उद्घोषः आसीत्।
अद्य यदा भारतः आत्मनिर्भरताया नवजागरणस्य च पथे अग्रसरः अस्ति, तदा स्वामीविवेकानन्दस्य विचारदर्शनं युवानां कृते चरित्रस्य साहसस्य राष्ट्रसेवायाः च प्रेरणारूपेण तेषां मार्गं प्रशस्तं करोति।
---------------
हिन्दुस्थान समाचार