Enter your Email Address to subscribe to our newsletters

चेन्नई, 12 जनवरीमासः (हि.स.)।
केंद्रसर्वकारस्य रक्षा अनुसंधान एवं विकास संगठनस्य सेवाभ्यः ईओएस एन१ (ईओसए एन१) इति उपग्रहः अभिकल्पितः अस्ति। अयं उपग्रहः अद्य आंध्रप्रदेशराज्यस्य तिरुपतिजिलायां स्थितात् श्रीहरिकोटास्थितात् सतीश धवन अन्तरिक्ष केन्द्रस्य द्वितीयात् प्रक्षेपणस्थलात् पीएसएलवी सी ६२ इति प्रक्षेपणयानस्य माध्यमेन भारतीय अन्तरिक्ष अनुसंधान संगठनद्वारा (इसरो) अन्तरिक्षे प्रक्षेपितः भविष्यति।
अनेन सह सहयात्रिणः उपग्रहाः अपि प्रेष्यन्ते, ये भारतस्य तथा विदेशानां विविधैः स्टार्टअप संस्थाभिः विकसिताः सन्ति। अस्य मिशनस्य कृते चतुर्विंशतिघण्टात्मकः काउंटडाउन प्रक्रिया ह्यः प्रातः १० वादनं १७ निमेषे आरब्धा।
रॉकेट प्रक्षेपणस्य दृष्ट्या श्रीहरिकोटाया समीपे स्थितस्य तिरुवल्लूरजिलायाः मत्स्यजीविभ्यः मत्स्यविभागस्य अधिकारिभिः अद्य समुद्रे मत्स्यग्रहणाय न गन्तव्यमिति अनुरोधः कृतः अस्ति।
पीएसएलवी सी ६२ रॉकेटस्य उपग्रहाणां च एकीकरणसम्बद्धानि कार्याणि पूर्णानि सन्ति। अस्य मिशनस्य अन्तर्गतं भारतस्य, मॉरीशसदेशस्य, लक्जमबर्गदेशस्य, संयुक्त अरब अमीरातदेशस्य, सिंगापुरदेशस्य, यूरोपमहादेशस्य तथा अमेरिकादेशस्य विविधकम्पनीभ्यः एवं अनुसंधानसंस्थाभ्यः सम्बन्धिताः कुलतः सप्तदश वाणिज्योपग्रहाः अपि अन्तरिक्षे प्रेष्यन्ते।
इसरोसंस्थायाः वैज्ञानिकाः रॉकेटस्य उपग्रहाणां च सर्वेषां चरणानां क्रियाकलापान् सततं सूक्ष्मतया निरीक्षन्ति।
---------------
हिन्दुस्थान समाचार