मकर संक्रांतेः सार्वजनिकोऽवकाशः अधुना 15 जनवरी दिनाङ्के
लखनऊ, 12 जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य योगीसर्वकारो मकरसंक्रान्तिपर्वणि भवितव्यस्य सार्वजनिकावकाशस्य तिथौ संशोधनं कृतवती। इदानीं राज्ये मकरसंक्रान्तेः अवकाशः चतुर्दशजनवरीस्थाने पञ्चदशजनवरीदिने भविष्यति। राज्यसर्वकारस्य प्रवक्ता सोमवासरे अवदत
आदेश पत्र


लखनऊ, 12 जनवरीमासः (हि.स.)।

उत्तरप्रदेशस्य योगीसर्वकारो मकरसंक्रान्तिपर्वणि भवितव्यस्य सार्वजनिकावकाशस्य तिथौ संशोधनं कृतवती। इदानीं राज्ये मकरसंक्रान्तेः अवकाशः चतुर्दशजनवरीस्थाने पञ्चदशजनवरीदिने भविष्यति।

राज्यसर्वकारस्य प्रवक्ता सोमवासरे अवदत् यत् राज्यस्य अवकाशसूची सप्तदशनवम्बर् २०२५ तमे दिने निर्गता आसीत्। तस्यां सूच्यां चतुर्दशजनवरीदिने मकरसंक्रान्तेः निबन्धितावकाशः घोषितः आसीत्। शासनस्तरे सम्यक् विचारं कृत्वा निश्चयं कृतं यत् मकरसंक्रान्त्यवसरे सार्वजनिकावकाशः भवितव्यः। अतः अधुना चतुर्दशजनवरीस्थाने पञ्चदशजनवरीदिने (गुरुवासरे) सार्वजनिकावकाशः भविष्यति।

अस्मिन् दिने सर्वाणि शासकीयकार्यालयानि विद्यालयानि च बन्दानि भविष्यन्ति। एतत्सम्बन्धे शासनस्य परतया सोमवासरे आदेशपत्रं अपि निर्गतम् अस्ति।

---------------

हिन्दुस्थान समाचार