मुख्यमंत्री अकरोत् स्वदेशी संकल्परूपधावनस्य शुभारंभः, युवभिः वोकल फॉर लोकल निमित्तं जनान्दोलनं निर्मातुम् आह्वानम्
देहरादूनम्, 12 जनवरीमासः (हि.स.)। राष्ट्रिययुवादिवसस्य अवसरे मुख्यमन्त्री पुष्करसिंहधामी सोमवासरे अत्र गान्धीपार्के स्वदेशीसंकल्पदौड शुभारम्भं कृतवान्। अस्मिन् अवसरे सः यूनः प्रति “वोकल फॉर लोकल” इति जनान्दोलनरूपेण कर्तुं आह्वानं कृतवान्। कार्यक्र
मुख्यमंत्री अकरोत् स्वदेशी संकल्परूपधावनस्य शुभारंभः, युवभिः वोकल फॉर लोकल निमित्तं जनान्दोलनं निर्मातुम् आह्वानम्


देहरादूनम्, 12 जनवरीमासः (हि.स.)। राष्ट्रिययुवादिवसस्य अवसरे मुख्यमन्त्री पुष्करसिंहधामी सोमवासरे अत्र गान्धीपार्के स्वदेशीसंकल्पदौड शुभारम्भं कृतवान्। अस्मिन् अवसरे सः यूनः प्रति “वोकल फॉर लोकल” इति जनान्दोलनरूपेण कर्तुं आह्वानं कृतवान्।

कार्यक्रमे मुख्यमन्त्री धामी स्वामीविवेकानन्दस्य चित्रे श्रद्धासुमनानि अर्पयित्वा तं नमनं कृतवान्। अस्मिन् अवसरॆ स्वदेशी-उत्पादानां संवर्धनं कुर्वन्तीः संस्थाः अपि मुख्यमन्त्रिणा सम्मानिताः।

एतस्मिन् प्रसङ्गे मुख्यमन्त्री उक्तवान् यत् स्वामीविवेकानन्दस्य “उत्तिष्ठत जाग्रत च लक्ष्यप्राप्तेः पर्यन्तं मा विरमत” इति सन्देशः देशस्य दृढाधारस्य निर्माणार्थं युवान् सदा प्रेरयिष्यति।

मुख्यमन्त्री अवदत् यत् प्रधानमन्त्री मोदीमहोदयस्य नेतृत्वे भारतः विकसितराष्ट्रस्य सङ्कल्पस्य दिशि अग्रसरः अस्ति, तथा च वर्ष २०४७ पर्यन्तं देशस्य विकासे युवानां भूमिका निर्णायिका भविष्यति।

मुख्यमन्त्री युवान् प्रति अपीलं कृतवान् यत् ते नशात् दूरं तिष्ठेयुः, अनुशासनं स्वीकुर्युः, शिक्षायाः कौशलविकासस्य च विषये विशेषं बलं दद्युः, राष्ट्रकर्तव्येषु च पालनं कुर्वन्तु। अपि च स्टार्टअप्, मेक इन इंडिया, स्किल् इन्डिया इत्यादीनि अभियानानि सर्वे मिलित्वा अग्रे नयितव्यानि इति तेन विशेषतः प्रतिपादितम्।

अस्मिन् अवसरे विधायकः खजानदासः, देहरादूननगरस्य महापौरः सौरभथपलियालः, भाजपाया संगठनमन्त्री अजेयकुमारः, पक्षपदाधिकारिणः तथा भाजपा युवामोर्चाया पदाधिकारिणः उपस्थिताः आसन्।

हिन्दुस्थान समाचार