Enter your Email Address to subscribe to our newsletters

अहमदाबादम् , 12 जनवरीमासः (हि.स.)।
जर्मनीदेशस्य चांसलरः फ्रेडरिक् मर्ज् सोमवासरे स्वस्य द्विदिवसीयभारतभ्रमणे गुजरातराज्यस्य अहमदाबादनगरं प्राप्तवान्। चांसलरपदं ग्रहणानन्तरं एषा तस्य प्रथमाः एशियायाः यात्रा अस्ति। प्रधानमन्त्री नरेन्द्रमोदी साबरमतीआश्रमे तस्य स्वागतं कृतवान्, यत्र उभौ नेतारौ आश्रमपुनर्विकासपरियोजनायाः समीक्षां कृतवन्तौ।
साबरमतीआश्रमे मेलनस्य अनन्तरं प्रधानमन्त्री मोदीमहोदयः च चांसलरः मर्ज् एकस्मिन्नेव यानेन साबरमतीरिवरफ्रण्ट् प्रति प्रस्थितवन्तौ। अद्य प्रधानमन्त्री मोदीमहोदयः साबरमतीरिवरफ्रण्टे अन्ताराष्ट्रियपतङ्गमहोत्सवस्य २०२६ उद्घाटनं करिष्यति। अस्मिन् अवसरे उत्तरायणोत्सवे उभाभ्यां नेतृभ्यां सह पतङ्गोत्तोलनस्य अपि सम्भावना अस्ति। अस्मिन् महोत्सवे देशविदेशेभ्यः आगताः पतङ्गप्रेमिणः सहभागं कुर्वन्ति।
जर्मनीदेशस्य चांसलरस्य फ्रेडरिक् मर्जस्य एतद् भ्रमणं व्यापारनिवेशरक्षामहत्त्वपूर्णप्रौद्योगिकिक्षेत्रेषु भारतजर्मनीसहयोगं अधिकं सुदृढं कर्तुम् उद्दिश्य भवति। यात्राकाले उभयोः देशयोः मध्ये द्विपक्षीयवार्ता अपि प्रस्ताविता अस्ति, यस्यां रणनीतिकसहकारितायाः विविधाः पक्षाः चर्चायाः अपेक्षिताः सन्ति।
---------------
हिन्दुस्थान समाचार