मुख्यमंत्री धामिनः बरेलीभ्रमणं निरस्तं, वर्चुअल माध्यमेन करिष्यति उत्तरायणी मेलापकस्य उद्घाटनम्
-त्रिदिवसीयस्य 30तमस्य उत्तरायणी मेलापकस्य मंगलवासरे जातः अनाैपचारिक शुभारंभः बरेली, 13 जनवरीमासः (हि.स.) । उत्तराखण्डस्य मुख्यमन्त्री पुष्कर सिंह धामिनोऽद्य बरेलीनगरस्य भ्रमणम् अपरिहार्यकारणैः निरस्तं जातम्। तस्मात् सः बरेली क्लबक्रीडांगणे आयोजित
शहर के प्रमुख मार्गों से गुजरती रंगयात्रा में पारंपरिक वेशभूषा में सजे कलाकार।


शहर के प्रमुख मार्गों से गुजरती रंगयात्रा में पारंपरिक वेशभूषा में सजे कलाकार।


शहर के प्रमुख मार्गों से गुजरती रंगयात्रा में पारंपरिक वेशभूषा में सजे कलाकार।


-त्रिदिवसीयस्य 30तमस्य उत्तरायणी मेलापकस्य मंगलवासरे जातः अनाैपचारिक शुभारंभः

बरेली, 13 जनवरीमासः (हि.स.) । उत्तराखण्डस्य मुख्यमन्त्री पुष्कर सिंह धामिनोऽद्य बरेलीनगरस्य भ्रमणम् अपरिहार्यकारणैः निरस्तं जातम्। तस्मात् सः बरेली क्लबक्रीडांगणे आयोजिते त्रिंशत्तमे उत्तरायणी मेलापके व्यक्तिगततया सहभागिनः भवितुं न अशक्नोत्। तथापि मेलायाः आयोजकाः वदन्ति यत् मुख्यमन्त्री धामी इदानीं उत्तरायणी मेलापकस्य उद्घाटनं आभासीमाध्यमेन करिष्यति।

अद्य रंगयात्रया सह बरेली क्लब् मैदानॆ त्रिदिवसीयः त्रिंशत्तमः उत्तरायणी मेलापकः अनौपचारिकरूपेण आरब्धः अस्ति। १३, १४ तथा १५ जनवरी दिनाङ्कपर्यन्तं प्रवर्तमाने अस्मिन् मेलापके उत्तराखण्डस्य समृद्धा लोकसंस्कृतिः, परम्पराः तथा लोककलाः रंगीणरूपेण प्रदर्शिताः भविष्यन्ति।

उत्तरायणी जनकल्याण समित्या आयोजिते अस्मिन् मेले उत्तराखण्ड समाजस्य सह नगरस्य विविधवर्गाणां समुदायानां च सक्रियः सहभागः दृश्यते। मेला समितेः अध्यक्षः अमित पन्तः, महामन्त्री मनोज पाण्डेयः तथा कोषाध्यक्षः कमलेश बिष्टः अवदन् यत् मेले प्रातः १० वादनसमयात् रात्रौ ८ वादनपर्यन्तं निःशुल्कप्रवेशः भविष्यति।

उद्घाटनात् पूर्वं महापौरः उमेश गौतम महोदयः कोतवालीस्थानात् रंगयात्रां हरिध्वजप्रदर्शनेन प्रेषितवान्। रंगयात्रा नगरस्य प्रमुखमार्गैः गत्वा मेला स्थलम् प्राप्नोत्, यस्यां पारम्परिकवेशभूषायां अलङ्कृताः कलाकाराः सर्वेषां आकर्षणकेन्द्रं अभवन्।

आयोजकानां कथनानुसारं मेलस्य द्वितीयदिने बुधवासरे उत्तरप्रदेशस्य उपमुख्यमन्त्री ब्रजेश पाठक महोदयः कार्यक्रमे सहभागी भविष्यति, अपराह्णे च डीडीहाट् (पिथौरागढ़) विधायकः विशन सिंह चुफाल महोदयः दीपप्रज्वलनं करिष्यति। तृतीयदिने महाराष्ट्रस्य पूर्वराज्यपालः भगत सिंह कोश्यारी महोदयः तथा नैनीतालस्य सांसदः अजय भट्ट महोदयः सहभागितां करिष्यन्ति इति कार्यक्रमः प्रस्तावितः अस्ति।

सांस्कृतिकप्रभारी पूरन दानू महोदयः अवदत् यत् अस्मिन् वर्षे उत्तराखण्ड सर्वकारपरतया षट् सांस्कृतिकदलानि मेलापके प्रस्तुतीः दास्यन्ति। मेला प्रभारी चन्दन नेगी, प्रकाश पाठक तथा कैप्टन शेर सिंह स्वस्वदलैः सह मेलं भव्यं स्मरणीयं च कर्तुं निरन्तरं प्रयत्नशीलाः सन्ति।--------------

हिन्दुस्थान समाचार